________________
सूरेरिति । जैनेति । अनेनाऽभिधेयम् । तद्बोधश्च फलम् । तदर्थी चाऽधिकारी । सम्बन्धः स्वयमेवोह्यः ॥४॥
पदार्थमुदिशतिद्रव्यपर्यायभेदेना-ऽनेकभेदसमन्वितौ । सत्पदार्थों समाख्यातौ, कृत्स्नभावप्रकाशिभिः ॥५॥
द्रव्येति । सत्पदार्थाविति । पदार्थो द्विविधः, द्रव्यं पर्यायश्च । सत्त्वं चोत्पादव्ययध्रौव्ययुक्तत्वं, पदार्थानां स्याद्वादमर्यादानुल्लचित्वात् । स्याद्वादोऽ. नेकान्तवादः, नित्याऽनित्याधनेकधर्मशबलैकवस्त्वभ्युपगम इति यावत् । नन्वप्रच्युतानुत्पन्नस्थिरैकरूपत्वेन नित्यत्वस्य, कथमाकाशादौ नित्यपदार्थ निरुक्तसत्त्वघटनेति चेत् , न । व्योम्नो नित्याऽनित्यत्वात् । तथा ह्यवगाहकानों जीवपुद्गलानां प्रयोगाद् विस्र सातो वा एकस्मान्नभःप्रदेशात् प्रदेशान्तरमुपसर्पणे तैः सममाकाशस्यैकस्मिन् प्रदेशे विभाग उत्तरस्मिश्च संयोगः । एवं चाकाशस्य पूर्वसंयोगध्वंसरूपपरिणत्यापत्त्या विनाशः, उत्तरसंयोगोत्पत्याख्यपरिणामानुभवाच्चोत्पादः । विरुद्धधर्माध्यासे धर्मिभेदस्याऽवश्यम्भावित्वात् । ध्रौव्यं चाकाशद्रव्यस्योत्पाव्यययोरधिकरणत्वेनानुगतत्वात् । तद्भावाव्ययं चात्र नित्यत्वम् । उत्पाद विनाशभावेऽपि अन्वयिरूपात् तद्भावाद् यन्न व्येति तन्नित्यमिति तदर्थः । न तूक्तलक्षणम् , उत्पादव्यययोर्निराधारत्वप्रसङ्गादिति । ....' एवं प्रदीपादावपि । नहि तैजसाः परमाणवो दीपपर्यायापन्ना वाताभिघातादिना तेजःपर्यायं परिहायान्धकाररूपपरिणत्यन्तरं भजन्तोऽप्येकान्तेनाsनित्याः; पुद्गलद्रव्यरूपतयाऽवस्थितत्वात्तेषाम् । नहि पूर्वपर्यायनाश उत्तरपर्यायोत्पाद इत्येतावतैवानित्यत्वम् । नहि सुवर्णद्रव्यं हारकेयूराद्यवस्थान्तरोण्यासादयदप्येकान्ततो ध्वस्तं; आबालगोपालं तेषु सुवर्णद्रव्यानुगमस्य प्रतीतत्वात् । 'घटरूपेण मृद्रव्यं नष्टं, न मृव्यरूपेण नष्टं' 'घटरूपेण घटो नष्टो, न तु मृद्रूपेण' इति प्रतियन्ति च लोका अपि वस्तुनो नित्यानित्यत्वमिति ।