SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ अथ वर्तमानप्रवचनोपदेष्ट्रतया परमासन्नोपकारित्वेन श्रीगौतमं भग.. वन्तं वन्दते वन्दे श्रीगौतमं देवं, देवतासङ्घसेवितम् । निःशेषलब्धिसम्पन्नं, प्रथमं गणनायकम् ॥२॥ वन्दे इति । निःशेषेति । लब्धयश्च सम्भिन्नश्रोतोलब्धिप्रमुखा अनेक भेदाः । सम्भिन्नश्रोतोलब्धिश्चयम् सर्वेन्द्रियाणां विषयान्, गृह्णात्येकमपीन्द्रियम् । . _यत्प्रभावेन सम्भिन्न-श्रोतोलब्धिस्तु सा मता ॥ . एवं कफौषध्यादयोऽक्षीणमहानसर्द्धि-महाप्रज्ञर्द्धि-बीजबुद्धयादयश्चाप्युपलक्षणीयाः ॥ २॥ अथ ग्रन्थकृद् , गुरुविनयत एव शास्त्रं सुविनिश्चितार्थ पूज्यं च भवतीति, स्वस्मिंश्च सम्यग्दर्शनज्ञानचारित्राणां संस्थापकत्वेन महोपकारितया सूरिभगवन्तं प्रणौति श्रीमच्छ्रमणसङ्घस्या-ऽधीश्वरं योगशालिनम् । परमप्रौढसाम्राज्यं, नेमिसूरिं प्रणौमि तम् ॥३॥ श्रीमदिति । योगेति । योगश्चात्र ज्ञानदर्शनचारित्ररूपः शास्त्रोक्तविधिना श्रीप्रज्ञप्त्यादिमहायोगोद्वहनरूपश्च ॥३॥ एवं चाभिमतशास्त्रसिद्धयुपायसद्बोधहेतुपरापरशास्त्रप्रवाहनिबन्धनं श्रीगौतमादिवर्तमानाचार्य-शासनसम्राटपर्यन्तं समस्तमप्याप्तप्रवाहं हृदि निधाय प्रतिजानीते सूरेभगवतस्तस्य, पादसेवाऽनुभावतः । जैनमुक्तावली काचिद्, विधियाऽपि विरच्यते ॥४॥
SR No.002251
Book TitleJain Tark Sangraha Jain Muktavali cha
Original Sutra AuthorN/A
AuthorVijaynandansuri
PublisherGodi Parshwanath Jain Temple Trust
Publication Year1982
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy