________________
. कालेनोपगता गुणेन ललिता या जैनमुक्तावलिस्तवृत्तिर्गुरुनेमिसरिपदयोर्भवत्याऽधुना तन्यते ॥५॥
प्रारब्धस्य निष्प्रत्यूहपरिसमाप्त्यर्थ शिष्टाचारपरिपालनार्थं च कृतं मङ्गलमुत्तरोत्तरशिष्टयर्थ निबध्नातिमूलम्-प्रणमामि महावीरं, चरमं तीर्थनायकम् ।
. सच्चिदानन्दसम्पूर्ण, भव्याभीष्टार्थदायकम् ॥१॥ टीका-ननु मङ्गलं न समाप्तौ हेतुः, कादम्बर्यादिषु व्यभिचारात् । नापि विघ्नध्वंसे, प्रायश्चित्तादिना व्यभिचारात् । अत्र प्राश्चोऽविगीतशिष्टाचारविषयत्वेन सफलत्वसिद्धौ असम्भवदृष्टफलकत्व एवादृष्टफलकल्पनौचित्यादुपस्थितस्वाञ्च समाप्तिरेव मङ्गलस्य फलं, विघ्नध्वंसश्च तवारं; स्वजन्यविध्नध्वंसवत्त्वेन मङ्गलाभावाच्च न कादम्बर्यादौ समाप्ति; नास्तिकग्रन्थेषु च जन्मान्तरीयतत्कल्पने. .त्याहुः । नव्यास्तु विघ्नध्वंसविशेष एव मङ्गलस्य फलम् । विघ्नध्वंसविशेषश्च प्रायश्चित्तादेः । इत्थं च मङ्गलस्य विष्नशङ्कया शिष्टाचारविषयत्वात् , सति विघ्ने चतनाशकत्वान्न स्वतः सिद्धविघ्नविरहस्थले काऽपि क्षतिः । प्रतिबन्धक संसर्गाभावस्य च संसर्गाभावत्वेन कार्यजनकत्वात् । समाप्तिकामस्यापि तत्र प्रवृत्तिरित्याहुः ।
अत्रोच्यते । विश्नध्वंसे एव मङ्गलं हेतुः । प्रायश्चित्तादेरपि मङ्गलत्वमेव । निकाचितकर्मणश्चाऽनपवर्तनीयत्वान्न बलवद्विघ्ननाशः। अशुभकर्मविपाकोदयश्च विश्नः । दुरितनिवृत्त्यसाधारणकारणं च मङ्गलम् । निश्चयतो नत्याधभिव्यङ्गयभावविशेषस्यैव दुरितनाशकत्वेन नतित्वादिना प्रातिस्विकरूपेण मङ्गलस्याऽहेतुत्वेऽपि न क्षतिः । वस्तुतः शब्दाथात्मकनत्यादीनामपि स्वाऽव्यवहितोत्तरविघ्नध्वंसहेतुत्वात् सर्वमनघमिति । नामादिव्युदासाथ तीर्थेति । तीर्थं च प्रवचनम् । स्वार्थसम्पत्तिमाह-सदिति । परार्थसम्पत्तिमाह-भव्येति ॥१॥