SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ श्रीशलेश्वरपार्श्वजिनस्तुतिः (वसन्ततिलकावृत्तम् ) शंखेश्वरः सुरनराधिपपूजिताहिः । शंखेश्वरं भजत सर्वगतं सुपाचम् ॥ शंखेश्वरेण विहितं समजन्तुहितम् । . शंखेश्वराय भवभीतिहृते नमोऽस्तु ॥१॥ शंखेश्वरात् नु विपदस्तितरां सुसम्पद् । शंखेश्वरस्य कुरु मुक्तिपदं सुसेवाम् ॥ शंखेश्वरे मम मनोऽस्तु सदैव लीनम् । - शंखेश्वर ३ ! तव पदाम्बुजरम्यरेणुः ॥२॥ (युग्मम् ) श्रीशान्तिजिनस्तुतिः (अनुष्टुप) शान्तिर्विश्वभविकाब्ज-रविः शान्तिकरोऽस्तु नः । शान्तिं श्रितजनाज्ञान-तमस्तरणिमानम ॥१॥ शान्तिना पापपङ्कप्र-चण्डपूष्णाशिवं हृतम् । शान्तये मोहनिद्राहृन्मार्तण्डाय नमोऽस्तु ते ॥२॥ शान्तः सृता भवाताप-विधोर्वाक्चन्द्रिकाऽभया । शान्तेः स्याद् दर्शनं नेत्र-चकोरेन्दोः सदाऽभवम् ॥३॥ शान्ती मे मुनि-कैरव-कलाधरे मनो लीनम् । शान्ते ! भवाब्धिशीतांशो ! रम्यरेणुः पदे तव ॥४॥ (चतुर्भिः कलापकम् )
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy