SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ [२०] श्रीशोभनस्तुतिचतुर्विशतिका तमोहरणाय--तमसः हरणम्-तमोहरणम् , तस्मै-तमोहरणाय । ‘कृति' ३।१।७७ (ष. त. पृ.). . .... महारिणः-अरम् अस्ति येषां ते-अरिणः 'अतोऽनेकस्वरात्' ७।२।६...इन् , महान्तश्च ते अरिणश्च-महारिणः, तत्संबोधनम्-महारिणः ! 'सन्महत्' ३।१।१०७ (वि. पू. क. )... . विश्वजनीनताम्-विश्वे चामी जनाश्च-विश्वजनाः, (वि.पू.क.) विश्वजनेभ्यः हितः-विश्वजनीनः, विश्वजन+ईन-'पञ्च-सर्व-विश्वाज्जनात् कर्मधारये' ७।१।४१.... ईन, विश्वजनीनस्य भावः-विश्वजनीनता। ताम्-विश्वजनीनताम् । 'भावे स्वतल' ७।१।५५...। . ___अमतमोहरणाः- मोहश्च. रणश्च-मोहरणौ, ( इत. द्व.) न मतौ मोहरणौ येषां ते–अमतमोहरणाः, (न.बं.बी.) तत्सम्बोधनम्-अमतमोहरणाः ! अथवा मतस्य मोहः-मतमोहः, (प.त.पु.) मतमोहात् रणः-मतमोहरणः, (पं.त.पु.) न विद्यते मतमोहरणः येषां ते-अमतमोहरणाः, तत्सम्बोधनम्-अमतमोहरणाः ! ( न.ब.नी.)। यमहारिणः--(१) यमं हरन्ति इत्येवं शीलाः-यमहारिणः । ( उप. त. पु.)। (२) यमैः (कृताः) हारिणः-यमहारिणः । 'तृतीया.' ३।१।६५ (तृ. त. पृ.) (३) यमाः हारिणः येषां ते-यमहारिणः, तत्सम्बोधनम्-यमहारिणः ! ( स. व. बी.) । असुमतां मृतिजात्यहिताय यो,.. जिनवरागम ! नो भवमायतम् । प्रलघुतां नय निर्मर्थितोद्धता ऽऽजिनवरागमनोभवमाय ! तम् ॥३॥१५॥
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy