SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ श्रीपर्युषणापर्वस्तुतिः .. [२७५] कार्य श्राव्यं च किम् ? तत्कथ्यते. जीवानामवनं विधत्त सुधियः ! कृत्वाष्टम, नागवद. भाव्या निर्मलभावना भविजनैः कैवल्यलक्ष्मीकृते । कल्याणानि जिनस्य भो गणभृतां वादं च पार्श्वप्रभुनेमाद्यन्तरकाणि भोः शृणुत सन्नाभेयवृत्तं तथा ॥३॥ अन्वय ___ भोः सुधियः ! नागवद् अष्टमं कृत्वा जीवानाम् अवनं विधत्त, भविजनैः कैवल्यलक्ष्मीकृते निर्मलभावनाः भाव्याः, जिनस्य कल्याणानि गणभृतां च वादं पाचप्रभुनेमाद्यन्तरकाणि तथा सन्नाभेयवृतं शृणुत..... . .. ___जीवानामिति....'भोः' कोमलामन्त्रणे। 'सुधियः' शोभना धियः येषां ते तनिमन्त्रणम् हे. सजनाः! भावुकाः! वा । 'नागवद् ' नागकेतुकुमारवत् । 'अष्टमम् ' ज्युपवासम् । ‘कृत्वा' आचर्य । 'जीवानाम्' : एकेन्द्रियादिप्राणिनाम् । 'अवनम् ' रक्षणम् । 'विधत्त' कुरुत ! अमारिप्रवर्तनं कर्तव्यमित्यर्थः। अत एव अष्टमतपसा सह एतदपि करणीयम् । पुनः काः कार्याः ? 'भविजनैः' भवः संसारोऽस्ति येषां भविनः सांसारिकाः मुक्तिवाञ्छकाः जनाः लोकास्तैः । 'कैवल्यलक्ष्मीकृते' कैवल्यं केवलं तन्नामपञ्चमज्ञानं तदेव लक्ष्मीः ऐश्वर्यं तस्याः कृते निमित्ते....पञ्चमज्ञानप्राप्त्यर्थमित्यर्थः । 'निर्मलभावनाः' निर्मला निर्गतानि मलानि स्वार्थ परगुणैादिलक्षणानि याभ्यस्ताः स्वच्छाः शुद्धाध्यवसायपरिणताः वा भावनाः शुभपरिणामाः। 'भाव्याः' चिन्तनीयाः। निर्मलभावनोद्भावनाय किं. कर्तव्यमित्याह-'जिनस्य' अर्हतः श्रीवीर
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy