________________
श्रीपर्युषणापर्वस्तुतिः ..
[ २७३ ] दिग्भगाब्धिवसुदिग्युग्मोपवासान् ' माः मासः त्रिंशदिनप्रमाणमिति “मास्तु मासे निशाकरे" इत्यनेकार्थः (१।१६)। तिथयः प्रतिपदादिका अत्र तु पञ्चदशमानार्थाः ‘पञ्चदश तिथ्यः' इत्यनेकार्थः । दिशः दिशाः दशसङ्ख्यकाः इत्यर्थः, भगाः लब्धयः अष्टौ, अब्धयः सागराः चत्वारः " चत्वारोऽब्धिश्रुतियुगकृताः " इत्यनेकार्थः, वनि-अष्टौ " तुरङ्गपर्वतौ चाऽष्टौ वसुसर्प-मतङ्गजाः।" इत्यनेकार्थः 'दिशः' दशलक्षणा, 'युग्मम् ' द्विकं षष्ठतपो वा, उपयुक्तसहुख्याः प्रमाणं येषां तान् उपवासान् तपोविशेषान् । ' कृत्वा' आचर्यः। तीर्थंकराणाम् ' तीर्थं कुर्वन्तीति तीर्थंकराः जिनेश्वरभगवन्तस्तेषाम् । 'भवहराम् ' भवं संसारं हरति दूरीकरोतीति....ताम् संसारोच्छेदिनीमित्यर्थः । ‘नवाम् ' नूतनाम् सप्तदशादिप्रकारिकाम् वा । 'रम्यार्चाम् ' रम्यां मनोहराम् अर्चा पूजाम् । 'विधत्त' कुरुत। 'षष्ठतपः ' षष्ठं द्वयुपवासात्मकं तपः । 'अलम्' शक्तिपूर्वकम् । ‘कृत्वा' विधाय। 'अन्तिमेशितुः' अन्तिमः अन्ते पश्चिमे भवः अन्तिम: चरमः ईशिता शासनपतिस्तस्य । वीरेन्दोः वीरेषु इन्दुश्चन्द्रमा इव वीरश्चासौ इन्दुश्चन्द्रश्चेति वा तस्य श्रीवीरविभोरित्यर्थः । 'चरित्रम्' वृतान्तम् श्रीवीरजिनादिकथानकं वा। 'मुदा' हर्षेण । श्रुत्वा मनोवाकायगोचरं कृत्वा । 'जनुरुत्सवे' जनु जन्म तनिमित्तकः उत्सवः आनन्दव्यक्तीकरणावसरस्तस्मिन् । “ जनु जननजन्मानि जनिरुत्पत्तिरुद्भवः" इत्यमरः (१।४।३०)। 'मूलूलुध्वनिम्' शोभनम् उलूलुं मङ्गलसूचकशब्दं ध्वनि स्वम् । “ उलूलु मङ्गलध्वनिः" इति अभिधानचिन्तामणिनाममालाटीकायाम् (५१८) । “ कुरुत" विधत्त ।
मथ-डे मासे ! सुंदर भासक्षमण, ५४२, ४१, मा8,
१८