SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ सकलकुशलपल्लीपादपूर्तिश्रीशान्तिजिनस्तुतिः [२५३ ] "मदनः सिक्थ के स्मरे। गठे वसन्ते धत्तुरे" इत्यनेकार्थः (३३८९)। 'पूर्णराकेन्दुवक्त्रः' पूर्णः कृत्स्नकलाकलितः राकायाः पूर्णिमायाः इन्दुश्चन्द्रमास्तद्वद् वक्त्रम् आननं यस्य संपूर्णशशिसममुखीत्यर्थः । "राका नद्यन्तरे कच्छवां नवजातरजास्त्रियाम् । संपूर्णेन्दुतिथौ" इति मेदिनी ( ३।३२ ) । 'कम्रकान्तिः ' कम्रा मनोहरा दर्शनतः एव प्राणिनयनहारित्वाद् कान्तिः प्रभा देहतेजो वा यस्य रम्यदीप्तिमानित्यर्थः । ‘मृगलक्ष्मा' मृगः हरिणः लक्ष्म चिह्नं जवामध्ये चित्रस्वरूपेण स्थितत्वाद् यस्य सः। " लक्ष्म चिह्न प्रधानयोः" इत्यमरः (३।३।१२४) । 'प्रसृतभुवनकीतिः' प्रसृता विस्तृता भुवनेषु लोकेषु स्वर्गमृत्युपाताललक्षणेषु कीर्तिः यशः यस्य सः। “भुवनं लोकखाम्बुषु" ॥३८८॥ इत्यनेकार्थः (३।३।८८)। 'शान्तिनाथः' शम्यात् दूरीक्रियात् पूर्वोत्पन्नमारिलक्षणरुग् यजन्मतः एव स शान्तिः तन्नामा षोडशतीर्थपतिः, स चासौ नाथः स्वामी चेति । ' जनानाम् ' लोकानाम् । 'कामितम् ' वाञ्छितम् । 'प्रथयतु' विस्तारयतु । इदं पद्यचतुष्कं मालिनीवृत्तम् , तल्लक्षणन्तु “ननमयययुतेयं मालिनी भोगिलोकैः" इति छन्दोऽमृतरसे । અર્થ–સમસ્ત કુશલરૂપી વેલડીને વિકસ્વર કરવામાં પુષ્કરાવર્તના મેઘ જેવાં, કામદેવ સરખાં રૂપવાળા, સંપૂર્ણ પૂર્ણિમાનાં ચંદ્ર જેવાં મુખવાળા, મનહર કાન્તિવાળા, હરણનાં ચિહ્નવાળા, વિસ્તાર પામી છે ભુવનને વિષે કીર્તિ જેની એવા, શાન્તિનાથ જિનેશ્વર भासान [२छतने विस्तार... समास सकलकुशलवल्लीपुष्करावर्तमेघः-सकलं च तद् कुशलं चसकलकुशलम् , ( वि. पू. क. ) सकलकुशलम् एव वल्ली-सकलकुशलवल्ली, ( अव. पू क.) सकलकुशलवल्ली विकाशयति-सकलकुशलवल्लीविकाशकः, समास
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy