SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ सकलकुशलवलोपादपूर्तिश्री शान्तिजिन स्तुतिः - ( मालिनी ) श्री शान्तिनाथस्वामिनं संस्तुवन्नाह - सकल कुशलवल्ली - पुष्करावर्तमेघो, मदनसदृशरूपः पूर्ण केन्दुवक्त्रः । प्रथयतु मृगलक्ष्मा शान्तिनाथों जनानां प्रसृतभुवनकोर्तिः, कामितं कान्तिः ||१|| अन्वय सकल कुशल वल्लीपुष्करावर्तमेघः, मदनसदृशरूपः, पूर्णराकेन्दुवक्त्रः, काकान्तिः, मृगलक्ष्मा, प्रसृतभुवन कीर्तिः, शान्तिनाथः जनानां कामितं प्रथयतु .... । सकल कुशलेति .....' सकल कुशलवल्लीपुष्करावर्तमेघः ' सकलं संपूर्ण जन्मरोगजरामृत्युरूपाऽकुशल निवृतत्वेन मोक्षजन्यं वा, यद्वा सकलानां समस्तानाम् अध्याहारात् सर्वसंसारिसच्वानां कुशलं मङ्गलमेव वल्ली लता तस्याः विकाशने पुष्पितफलितकरणे वा पुष्करावर्तः पुष्करं जलम् आवर्तयति भ्राम्यति यत्र यद्वा पुष्कराणां नीराणाम् आवर्त्ता भ्रमा ( जायन्ते) यस्मिन् स इति तन्नामोत्तमप्रकारमेघः, स एव मेघः घनः इव "पुष्करं पङ्कजे व्योम्नि पयः करिकराग्रयोः । औषधीद्वीप विहगतीर्थराजोरगान्तरे || १५३ || पुष्करं तूर्यवक्त्रे च काण्डे खड्गकलेऽपि च " इति विश्वः (१३७।१५३ - ४ ) । " स्यादावर्तोsarai भ्रमः" इत्यमरः ( १1१०1६ ) | ( मदनसदृशरूपः मदनः । ' ' कामदेवस्तस्य सदृशं समानं रूपं वपुर्वर्ण यस्य स्मरस्वरूपीत्यर्थः ।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy