________________
[ २५० ]
प्रकीर्णकस्तुतिकूलम् इति विहितोऽण, तद्-शत्रसमूहं स्यति नाशयतीतितम् आरसम् । "आतोडोऽह्वा०" ( सि०५।१।७६) इति डः, बाह्यान्तरङ्गरिपुनाशकमित्यर्थः । ‘अभीप्सितदम् ' अभितः सर्वतः ईप्सितम् अभिलषितं यद् वस्तु तद् ददाति प्रयच्छतीतितम् .... सर्वसत्त्वसुखकारत्वेन, यदुक्तमन्यत्र-“दर्शनात् दुरितध्वंसी वन्दनात् वाञ्छितप्रदः । पूजनात् पूरकः श्रीणां, जिनः साक्षात् सुरद्रुमः ॥ १ ॥" वाञ्छितदायकमित्यर्थः । 'विशालम्' महत्तमम् । 'उत्पत्तिविस्तरनदीशपतजनानाम् ' उत्पत्तिः जन्म तस्य यो विस्तरः व्यासः परम्परा वा तन्मयः यो नदीशः-नदीनां सरिताम् ईशः स्वामी समुद्रः उपलक्षणादत्र संसारो गृह्यते जन्मसन्तानमयसंसारसागरस्तस्मिन पततां निमजतां जनानां लोकानाम् । “जनुर्जनन-जन्मानि जनिरुत्पत्तिरुद्भवः " इत्यमरः (१।४।३०)। 'पोतायमानम् ' 'पोतः प्रवहणः इवाचरन् पोतायमानस्तम् प्रवहणसदृशमित्यर्थः । जिनेश्वरस्य' जिनेषु वीतरागेषु ईश्वरस्य स्वामिनः तीर्थकुद्भगवत इत्यर्थः । 'पूर्वान्तम् ' पूर्वतः प्रथमतः तीर्थकृतः इत्यध्याहार्यम् प्रथमजिनपतेः अन्तम् चरमं जिनेश्वरमित्यर्थः, 'अभिनम्य' अभितः सर्वतः मनोवाकायत्वेन नत्वा प्रणमनं कृत्वा । 'अमलाम् ' न विद्यते मलम् अशुद्धाशयो यस्यां शुद्धाम् वीतरागताप्राप्त्यै क्रियमाणत्वाद् । 'सेवाम् ' पर्युपासनाम् । 'प्रकरोति' प्रकर्षण आन्तरिकाऽनुरागेण करोति विधत्ते ।
અર્થ -માતંગયક્ષ-શત્રુઓનાં સમૂહનો નાશ કરનાર, ઈચ્છિતને मापना२, महान् , मनी ५२ ५२॥ छ भने सेवा (संसार ) સાગરમાં પડતાં માણસને પાર ઉતારનાર વહાણ સરખાં, તીર્થકરભગવંતનાં પૂર્વથી અને રહેલાં પ્રભુ (મહાવીર પરમાત્મા)ને નમસ્કાર કરીને નિર્મલ સેવા કરે છે. '