________________
[ २२६ ]
प्रकीर्णकस्तुतिकूलम् नानारत्नैरिति...'अस्मि' अहमर्थद्योतकमिदमव्ययम् 'विभक्तिथमन्त०' (सि०१।१।३३) कर्ता स्वयमित्यर्थः। 'अतुलप्रौढसादृश्यपाठः' नास्ति तुला उपमा सादृश्यं वा येषाम् अनुपमा असमाना वा-अनेकान्तधर्मोपेतत्वाद् वीतरागप्रणीतत्वाद् वा प्रौढाः प्रकर्षेण ऊह्यन्ते स्म प्रतिभाशालिनः "प्रौढस्तु प्रगल्भः प्रतिभान्वितः ॥ इति हैमः (३४३)। यद्वा प्रौढाः प्रवृद्धा अतिशयिता वाऽन्योन्यतः "प्रवृद्धमेधितं प्रौदं” इति हैमः (१४९५) सदृशा एव सादृश्याः भेषजादित्वात् व्यण, समानाः पाठाः शब्दमयसूत्राणि वर्णरचना वा तैः " पाठश्च पठने ख्यातो विद्धपयों तु योषिति" इति मेदिनी (३९।७) । 'नानारत्नैः' नाना विविधैः रत्नैः वैडूर्यादिभिः ( कृतं )। 'सुभगम्' शोभनं भगम् ऐश्वर्य लक्ष्मी वा यस्य तम् श्रेष्ठविभूतिमन्तमित्यर्थः । “भग श्रीयोनिवीर्येच्छाज्ञान-वैराग्य-कीर्तिषु । माहात्म्यैश्वर्ययत्नेषु धर्म मोक्षेऽथ ना रवौ" ॥ १२ ॥ इति मेदिनी ( २२॥१२)। 'विज्ञज्ञातैः' विशेषेण विशेष वा जानति विज्ञाः बुधाः तैः ज्ञातैः विदितैः । "कुशलश्चतुरोऽभिज्ञ-विज्ञ-वैज्ञानिकाः पटुः" इति हैमः (३४३)। 'बहुनयभरैः' बहूनां प्रभूतानां एकशब्दस्यापि अनेकार्थत्वेन नयानां नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूठेवम्भूतलक्षणानां "नयः स्यान्नैगमादिषु । नीतिद्यतभिदोः" इत्यनेकार्थः (२।३६० ) । भरैः अतिशयैः समूहै ा " भरोऽतिशयभारयोः" इत्यनेकार्थः ( २।४३३)। 'सत्तरङ्गैः' सद्भिः विद्यमानः प्रशस्तै ा तरङ्गैः ऊर्मिभिः। " भङ्गस्तरङ्ग उमि वा स्त्रियां वीचिः" इत्यमरः (१।१०।५)। 'उपेतम् ' युक्तम् । 'बोधागाधम् '. बोधैः ज्ञानः अगाधम्-नास्ति गाधः स्थितियंत्रातिनिम्नस्तम् अतलस्पर्शमित्यर्थः। “अगाधमतलस्पर्श" इत्यमरः (१।१०।१५)।