SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ संसारदावापादपूर्तिश्रीवीरजिनस्तुतिः [२२१] अन्वयः निर्जितमोहवीरं, संसाग्दावानलदाहनीरं, नमेन्द्रमौलिप्रपतत्-- परागपुञ्जस्फुरत्कबुरितक्रमाब्ज, वीरं भजे। नमेन्द्रतिः 'निर्जितमोहवीरम् ' निर्जितः निःशेषेण अपुनरुत्थानत्वेन जितः पराभूतः मोहः तन्नामकर्म एव वीरः भटः येन तम् । “वीरो जिने भटे श्रेष्ठे" इत्यनेकार्थः ( २२४४६)। परास्तमोहमहाभटम् इत्यर्थः। 'संसारदावानलदाहनीरम् ' संसारः कर्मोंपेतजीवानां निवास एव दावानल:-दावाद् अरण्याद् उद्भवो दावो वनवह्निरेव अनलः अग्निः , दावानलेन देहमानं दह्यते आधिव्याध्युपाधिमय-संसारो देहमनसी दहतीति संसारो दावानल एवे. त्युक्तम् । " दवदावौतु वनवह्नौ वनेप्युभौ" इति मेदिनी (१५८११०)। "अनलो वसुभेदेऽग्नौ इति मेदिनी (१४९।५७)। तस्य यो दाहः ज्वलनं तस्य प्रशमने नीरं जलमिव । 'नमेन्द्रमौलिप्रपतत्परागपुनस्फुरत्कर्बुरितक्रमाजम् ' नम्राणां नमनशीलानां चरणविलग्नानां वा इन्द्राणां शक्राणां ये मौलयः मुकुटाः, पुष्पं विना परागः कथं भवेद्यतोऽत्र पुष्पबद्धा मुकुटा गृह्यन्ते, तेभ्यः प्रपतन् प्रसरन् यः परागाणां पुष्परसानां 'परागः कौसुमे रेणौ स्नानीयादौ रजस्वपि।" इत्यमरः (३।३।२१)। पुनः राशिः " पुजराशी तूत्करः कूटमस्त्रियाम् ॥४२॥ इत्यमरः (२।५।४२)। तेन स्फुरन्तौ दीप्यमानौ कर्बुरितौ कर्बुरः शबलः चित्रविचित्रं वा सञ्जातः ययोस्तौ तारकादित्वादितः नानावर्णितौ पुष्पाणामनेकविध. स्वाद् “कर्बु सलिले हेम्नि कव॒रः पापरक्षसोः । कर्बुरा कृष्णवृन्तायां शबले पुनरन्यवत् ॥ इति मेदिनी (१३१।१२२ )। क्रमौ चरणौ एव अब्जे कमले यस्य तम् । “क्रमः कल्पांहि-शक्तिषु । पारिपाटयामित्यनेकार्थः (२।३१०)। 'वीरम् ' श्रीमहावीरदेवम् ।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy