________________
[१७२ ]
प्रकीर्णकस्तुतिकूलम् 'विधिवत् ' विधिना इव आगमोक्तरीत्येत्यर्थः । ‘पीत्वा' पानं कृत्वा आचम्य वा । 'प्राज्यनिर्वाणपुर्याम् ' प्राज्यायां महत्यां निर्वाणस्य शर्मणः मोक्षस्य वा, पुर्यां नगर्याम् । 'यात्वा' गत्वा प्राप्य वा। 'अमरताम्' भ्रियते इति मरः मृत्युः न मरः अमरः मृत्यभावस्तस्य भावोऽमरता मृत्युरहितता ताम् । 'जग्मुः' प्राप्नुवन् " गत्यर्थाः प्राप्त्यर्थाः" इति वचनात् गम्धातुः प्रापणार्थोऽत्र बाध्यः । ' यान्ति' प्राप्नुवन्ति । ‘यास्यन्ति' प्राप्स्यन्ति । 'तत्' पूर्वोक्तामृतरसभृतम् । 'देवाधिदेवागमदशमसुधाकुण्डम्' देवाधिदेवेन हरिहरादिदेवानाम् अधिकः उत्कृष्टः देवस्तेन अधिदेवेन तीर्थकृद्भगवता प्रोक्तो य आगमः सिद्धान्तः समयो वा “आगमस्त्वागतौ शास्त्रे" इत्यनेकार्थः (३।४५३ ) । स एवं दशमं नवामृतरसस्य कुण्डानि पाताले प्राक् प्रकटितानि इति श्रुतिः अत एव एतच्छास्त्रं दशमसुधाकुण्ड मिति कथितम् । सुधायाः अमृतस्य कुण्डम् द्रहविशेषः . जलाधारो वा । 'पञ्चम्याः तत्पर्व विशेषस्य। 'तपसि' अनुष्ठानविशेषे। 'उद्यतविशदधियाम् ' उद्यता तत्परा तपस्करणशीला वा, विशदा निर्मला धी मति येषां तेषां । " विशदः शुचिः," इति हैमः (६।२८)।" "बुद्धिर्मनीषा धीषणा धीः प्रज्ञा शेमुषी मतिः।" इत्यमरः (१।५।१)। 'भाविनाम्' भावुकानां भव्यजीवानां वा । 'नित्यम् ' सततं निरन्तरं वा । 'आनन्दहेतुः' आनन्दस्य : प्रमोदस्य हर्षस्य वा, हेतुः कारणम् । “ निमित्ते कारणं हेतुः बीजं योनि निबन्धनम् ॥ १४९ ॥ निदानम्" इति हैमः (६।१४९)। 'अस्तु' भवतु भूयाद् वा ।