SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्रीज्ञानपञ्चमीस्तुतिः [ १७१ ] अथ जिनागमं पीयूषसमोपमीकुर्वन्नाहपीत्वा नानाभि(वि)धार्थाऽमृतरसमसमं यान्ति यास्यन्ति जग्मुजीवा यस्मादनेके विधिवदमरतां प्राज्यनिर्वाणपुर्याम् ॥ यात्वा देवाधिदेवागमदशमसुधाकुण्डमानन्दहेतुस्तत् पञ्चम्यास्तपस्युद्यतविशदधियां • भाविनामस्तु नित्यम् ॥ ३ ॥ ____ अन्वय-यस्माद् अनेके जीवाः असमं नानाभि-(वि)धार्थाऽमृतरसं विधिवत् पीत्वा प्राज्यनिर्वाणपुर्यो यात्वा अमरतां जग्मुः यान्ति यास्यन्ति तत् देवाधिदेवागमदशमसुधाकुण्डं पञ्चम्याः तपसि उद्यतविशदंधियां भाविनां नित्यम् आनन्दहेतुः अस्तु । पीत्वेति....'यस्माद्' जिनप्रणीतसिद्धान्ताद्। 'अनेके' न एके अपि तु : बहवः, 'जीवाः' संसारिणः, “ जीवः स्यात्रिदशाचार्य, द्रुमभेदे. शरीरिणि। जीवितेऽपि च " इत्यनेकार्थः (२।५१०)। 'असमम् ' न विद्यते समस्तुल्यो यस्य तम् अद्वितीयमसाधारण वा । 'नानाभि-(वि)धार्थामृतरसम् ' नाना बहुप्रकारा विविधा वा, “ नाना विनोभयानेकार्थेषु" इत्यनेकार्थः (७३२) । अमिधा नामधेयानि येशं तर. वाच्या विषया वा “ अर्थों हेतौ प्रयोजने ॥ २०८ ॥ निवृतौ विष वाच्ये प्रकार द्रव्य-वस्तुपु" इत्यनेकार्थः (२।२०८।९)। यद्वा न ना अनेके विधाः प्रकाराः येषां तेर्थाः, त एवामृतस्य सुधायाः "अमृतं यज्ञशेषेऽम्बु-सुधामोक्षे-ध्वयाचिते इत्यनेकार्थः ( २।२२.)। रसः आस्वादः तम् ।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy