________________
[ १६६ ]
प्रकीर्णकस्तुतिकूलम् सान्द्राणि ध्वंसमानः सकलकुवलयोल्ला
समुच्चैश्चकार, ज्ञानं पुष्याजिनौघः स तपसि भविनां
पञ्चमीवासरस्य ॥ २ ॥ अन्वयः-यः ( जिनौषः) सितरूचिः इव सच्चकोरान् सम्प्रीणन् शिवतिलकसमः, कौशिकानन्द-(न्दि)मूर्तिः, पुण्याब्धि-प्रीतिदायी, स्वीयगोभिः सान्द्राणि तमांसि ध्वंसमानः, सकलकुवलयोल्लासम् उच्चैश्चकार सः जिनौधः भविनां पञ्चमीवासरस्य तपसि ज्ञानं पुष्यात् ।
संप्रीणनिति-'य:' निम्नोक्तस्वरूपी जिनौघः, “सितरूचिः' सिता श्वेता शुक्ला वा रुचिः कान्ति यस्य चन्द्रमाः इव शशिवदित्यर्थः । कया रीत्या ? 'सचकोरान्' चन्द्रपक्षे-सतः शोभनांश्चकोरान् प्रियचन्द्रचन्द्रिकान्-तन्नामकपक्षिविशेषान् वा । जिनौघपक्षे-सतः सजनान् एव चकोरान् " सन् साधौ धीर-शस्तयोः । मान्ये सत्ये विद्यमाने त्रिषु साध्व्युमयोः स्त्रियाम्" इति मेदिनी ( ५९।६८-६९) । 'संप्रीणन्' समाह्लादयन् । पुनः किंभृतः ? 'शिवतिलकसमः' शशिपक्षे-शिवस्य महादेवस्य, जिनजातपक्षे तु शिवस्य मोक्षस्य, तिलकेन ललाटभूषणेन समस्तुल्यः । “शिवो योगान्तरे वेदे गुग्गुलौ वालुके हरे । पुण्डरीक-दुमें कीले " इत्यनेकार्थः (२।५२६) । “ तिलकोऽश्वद्रमभिदोः पुण्डके तिलकालके" ॥ ४५ ॥ इत्यनेकार्थः (३।४५)। हरस्य जटाया उपरिष्टाञ्चन्द्रस्तिलक इव प्रतिभातीत्यतः, सिद्धभगवन्तः तु सिद्धशिलायां लोकाग्रभागे स्थितत्वात् शिवतिलकसमः इति यथार्थम् । अथ किं लक्षणः ? 'कौशिकानन्द (न्दि)मूर्तिः' शितांशुपक्षे-कौशिकाः घृकाः तन्ना