SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्रीनमिजिनस्तुतिः [ १३१ ] अतीतापदम् - अतीता आपदः यस्याः सा - अतीतापद्, ताम्अतीतापदम् । ( स. ब. श्री . ) 'स्म्य- जस नम्रनिर्वृर्तिकम् - निर्वृतिं करोतीति निर्वृतिकरः, 'हेतुतच्छीलाऽनुकूले' ५।१।१०३....ट, (उप. त. पु.) नमन्ति इत्येवं शीलाः - नम्राः, हिंस०' ५।२।७९... नम्राणां निर्वृतिकरः - नम्रनिर्वृतिकरः तम् - नम्रनिर्वृतिकरम् । ' कृति ' ३।१।७७... ( ष. त. पु. ) , " अञ्जनभासमानमहसम् – अञ्जनस्य भा-अञ्जनभा, (षत, पु. ) अञ्जनभया समानम् -अञ्जनभासमानम् ' ऊनार्थपूर्वाद्यैः ' ३।१।६७... (तृ. त.पु. ) अञ्जनभासमानं महः यस्य सः - अञ्जनभासमानमहाः, तम्-अञ्जनभासमानमहसम् । ( स. ब. श्री. ) 1 राजीमतीतापदम् - तापं ददातीति- तापदः, 'आतोडोऽहा ० ' ५/१/७६.... ड, ( उप त पु. ) राजीमत्याः तापदः - राजीमतीतापदः, तम् - राजीमंतीतापदम् । ' कृति ' ३।१।७७ ( ष . त . पु. ) प्रावाजी जितराजका रज इव ज्यायोऽपि राज्यं जवाद्, या संसारमहोदधावपि हिता शास्त्री विहायोदितम् । यस्याः सर्वत एव सा हरतु नो राजी जिनानां भवा,यासं सारमहो दधाव पिहिताशास्त्री विहायोऽदितम् ॥ २ ॥ ८६ ॥ अन्वय - जितराजका, संसारमहोदधौ अपि हिता, शास्त्री, या उदितं ज्यायः अपि राज्यं रज इव जवात् विहाय प्रात्राजीत् यस्याः पिहिताशास्त्रीविहाय : अदितं सारमहः सर्वत एव (जवात् ) दधाव सा जिनानां राजी नः भवायासं हरतु । g
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy