________________
सश्रद्धाराद्धसुश्राद्धधर्मः काले मृतोऽथ सः । रत्नपाल ! प्रजापाल! भवान् भाग्यैकभूरभूत् ॥ ८३४॥ दुःखदाहोत्थवैराग्य( : )सिद्धदत्तः स तापसः । अज्ञानकष्टः क्रियया, जयामात्योऽभवत्पुनः ॥ ८३५॥ तदा लोभेन तत्पोतं, द्वादशाऽहानतिष्ठिपः । तद्वैरात्सोऽत्र ते राज्यं, वर्षाणि द्वादशाऽग्रहीत् ॥ ८३६॥ ऋणं वैरं द्वयं चैतन्नृभिमा॑ादुपेक्षितम् । जन्मकोटिसहागामि, नहि जीर्यति कर्हिचित् ॥ ८३७॥ तेषामध्यवसायस्य, विशेषादन्यजन्मनि । . भूत्वा शतसहस्रादिगुणं तच्चोपतिष्ठते ॥ ८३८॥ जीवस्तु धनदत्तस्य, श्राद्धो वैदेशिकोऽभवत् । प्राच्योपकाराद् ग्लानत्वे, यं तदा प्रत्यजागरीः ॥ ८३९॥ यश्च त्वत्कारितप्रान्ताराधनानशनक्रियः । .. सुरीभूतः कृतज्ञत्वादुपचक्रे तदा तदा ॥ ८४०॥ प्राच्यपन्यो नवाप्यत्र, स्नेहादेत्य तवाऽमिलन् । नीरदानोल्लसद्भोगसत्कर्मसहभुक्तये ॥ ८४१॥ श्रीदेवी चाऽभवत्तासु, राज्ञी शृङ्गारसुन्दरी । . यच्च जन्मसहस्रात्प्राक् , तारुण्योन्मत्तया तया ॥ ८४२ ।। हास्येनाच्छोटितो धूल्या, कायोत्सर्गस्थितो मुनिः । नानाविडम्बनाश्चास्या, जातास्तेनाऽत्र जन्मनि ॥ ८४३ ।युग्मम्॥ रे कुष्ठिन् ! न करोष्येतन्मदुक्तं किमु सत्वरम् ?। भृत्यः कनकमञ्जर्येत्याक्रुष्टः प्राच्यजन्मनि ॥ ८४४ ॥