________________
तत्सत्त्वतुष्टः क्रव्यादो, विमुच्याऽथ नृपं द्रुतम् । तस्मै च द्वादश स्वर्णकोटीर्दत्त्वा तिरोदधे ॥ ८२३॥ कश्चिद्व्यन्तरजातीयो, मांसाशी नहि कर्हिचित् । किन्त्वीदृग् याचते नूनं, सत्त्वमेवेक्षितुं नृणाम् ॥ ८२४॥ कृतज्ञोऽथ स भूजानिरतीवात्मोपकारिणम् । धनदत्तं व्यधान्मुख्यं, सर्वत्र व्यवहारिषु ॥ ८२५ ॥ भद्रकप्रकृतिः प्रायः, पापभीरुमनाः सना । सौम्यदृष्टिः स भूजानिरिति पालयति प्रजाः ॥ ८२६॥ अथाऽन्यदा वसन्तौं, सान्तःपुरपरिच्छदः । जग्मिवान्बहिरुद्याने, स नृपः केलिकौतुकी ॥ ८२७॥ तत्र यावच्च मध्याह्ने, सूपकारैर्नृपाज्ञया । नानारसवतीपाकः, क्रियमाणोऽस्ति सोद्यमम् ॥ ८२८॥ तावत्क्षुत्तृड्भृशग्लानाः, सार्थभ्रष्टा महर्षयः । कैचिदीयुस्त्रिभिर्घस्त्रैस्तत्रोल्लंङ्घय महाटवीम् ॥ ८२९॥ साऽनुकम्पहृदा राज्ञा, वल्लभाभिश्च तस्य ते । तदा. तन्दुलनीरेण, प्रासुकेन निमन्त्रिताः॥ ८३०॥ समयोपनतं शुद्धं, तद्विज्ञायाददेऽद्य तैः। विलोक्यमानं तत्रैकनान्दीभाजनपूरकम् ॥ ८३१॥ तत्रैवासन्नवृक्षस्य, च्छायायामेत्य सत्वरम् । पीयूषमिव तत्पीत्वा, स्वास्थ्यमापुर्महर्षयः ॥ ८३२॥ उपदेशमथ श्रुत्वा, तत्रैत्य स नृपः क्षणम् । लघुकर्मा प्रपेदानः, श्राद्धधर्मं प्रियायुतः ॥ ८३३॥ 1. दिनैः
13