________________
अर्हम्
॥ प्रस्तावना ॥
अस्य दानमाहात्म्यप्रतिबद्धस्य श्रीरत्नपालनृपकथानकस्य कर्त्तारो वाचनाचार्य श्रीसोममण्डनाभिधानाः श्रीबृहत्तपागच्छ शृङ्गारहारोपमयुगोत्तमाचार्य पुरन्दर श्रीमन्मुनिसुन्दररसूरीणां विनेया अभूवन् इति कथानकस्यास्य प्रशस्तौ स्फुटमेव । यद्यपि ग्रन्थकर्तृभिरत्र स्वसत्तासमयः क्वापि नोपनिबद्धस्तथापि ग्रन्थस्यास्य प्रशस्तिमध्यवर्त्तिना
"मुनिसुन्दरसूरीशपट्टे विजयिनोऽधुना । श्रीरत्नशेखरगणाधीशा वः शिवसम्पदे ॥ "
इत्येतेन पद्येन श्रीरत्नशेखरसूरीणां सत्तासमये आत्मनोऽपि सत्तासमयः प्रकटीकृतस्तैः; किञ्च श्रीमन्मुनिसुन्दरसूरिरत्नशेखरसूर्योर्विद्यमानत्वं त्वेताभ्यामेव स्वकृतेष्वनेकग्रन्थेषु महोपाध्याय श्रीमद्धर्मसागरगणिविरचितायां पट्टावल्यां च विक्रमार्कीयपञ्चदशशताब्दयां प्रकटितमेव, अतः श्रीमन्मुनिसुन्दरशिष्यत्वेनामीषामपि समयोऽनन्तरोक्त एवेति प्रतिपादने नात्रासमीचीनम् ।
एतद्ग्रन्थप्रणेतृभिरन्येऽपि ग्रन्थाः कृता भवेयुः परं कति किंविषया: ? । इति नाद्यापि निर्णयपथमवतीर्णम् ।
अस्मिन् कथानके दानमाहात्म्यं विवृण्वद्भिः कविभिरादौ परस्परसंजातविवादानां दानशीलतपोभावानां वादनिराकरणयुक्त्युद्घटनम्, तदनन्तरं कथानायकस्यास्य रत्नपालनृपतेर्जन्मतः समारभ्य सुरसद्मप्राप्तिपर्यन्तं सुपात्रप्रासुकपानीयदानफलोपभोगाविर्भूतानेकाश्चार्यावहस्य चारुचरित्रस्याविष्करणम्, अस्य पट्टराज्ञ्याः शृङ्गारसुन्दर्याः समुत्पन्नेऽपि महत्युपसर्गे शीलरक्षादृढत्वोद्भावनम्, प्रासङ्गिकोदाहरणनिरूपणम्, पूर्वभवस्वरूपशंसनम्, इत्यादि समग्रमपि चरित्रं व्यावर्णितमस्ति; तत्तु स्वयमेवावभोत्स्यते बुद्धिमद्भिरिति नास्माकमत्रातिकथनीयम् ।
3