________________
इत्याशु विषयाशंसाविरक्तो विमलाशयः । रत्नपालनृपः सोऽभूत्प्रवज्याग्रहसाग्रहः । । ८६२ ॥ आपिताः परमां प्रौढिं, तेन सत्कृत्य सद्गुणैः । प्रधानामात्यसामन्ताः, सखेदं तं तदोचिरे ॥ ८६३ ॥ त्वदेकजीविता: स्वामिंस्त्वत्तः कल्पद्रुमाच्च्युताः । वयं सुमनसो नूनं, भविष्यामः कथं हहा ! ? ॥ ८६४ ॥ इयानन्तः पुरंजनो, नानाभोगोचितः कथम् ? । भावीत्युक्तस्त्वया मूर्द्धभ्रष्टके शकलापवत् ॥ ८६५ ॥ न्यायनिष्ठ ! गुणश्रेष्ठ !, त्वया पालितपोषिताः । लस्यन्तेऽमूः प्रजा मातापितृसौख्यं कुतोऽन्यतः ? ॥ ८६६॥ सम्मोहोद्दीपनैरित्यादिभिर्वाक्यैस्तदीरितैः । वैराग्ये सुस्थिरं राज्ञो, नाकम्पत मनो मनाक् ॥ ८६७ ॥ सोऽथ मेघरथं पुत्रं, प्रतिरूपमिवात्मनः ।
निवेश्य राज्ये राजन्यसमक्षमनुशिष्य च ॥ ८६८ ॥ श्री मज्जिनमतोद्योतं, चिकीर्षुः सर्वतो जने । कृत्वा प्रियाभिः सहितश्चैत्येष्वष्टाह्निकामहम् ॥ ८६९ ॥ दीनादिभ्यो ददद्दानं, पुत्रक्लृप्तैर्महामहैः । महासेनमुनेः पार्श्वे, प्रव्रज्यां, प्रतिपन्नवान् ॥ ८७० ॥ ॥ त्रिभिर्विशेषकम् ॥ चारित्रं निरतीचारं, शुचिचित्तः समचरत् ।
,
तपोऽथ दुस्तपं तप्त्वा कालेऽभूत्स सुरो महान् ।। ८७१ ॥ देवर्द्धिमद्भुतां भुक्त्वा, सचिरं दिवि सप्रियः ।
महाविदेहे मानुष्यं प्राप्य सेत्स्यति चाऽचिरात् ॥ ८७२ ॥ निस्समानसमृद्धीनां निदानं दानमुज्ज्वलम् । इति मत्वा मनः शुद्ध्या, यतध्वं तत्र सत्तमाः ॥ ८७३ ॥
१. ' पुरीवर्गो' इत्यपि । २. 'समाचरन्' इत्यपि ।
८७