________________
क्षणदृष्टविनष्टत्वात्स्वप्नः सर्वमिदं भुवि । एको भवति सुप्तानां, द्वितीयो जाग्रतां पुनः ॥ ८५६ ॥ प्रतिक्षणमयं कायः, क्षीयमाणो न लक्ष्यते । वारिमुक्तामघटवद्विशीर्णः स विभाव्यते ॥ ८५७ ॥ आयुर्नासाग्रसञ्चारिनिःश्वासोच्छासकैतवात् । अत्यन्तगमनायेव, सदाऽभ्यासे कृतोद्यमम् ॥ ८५८ ॥ येभ्यो जाताश्चिरात्तावत्ते गताः स्वसमानपि । पश्यन् प्रयातो मरणं, हन्तात्मायमनाकुलः ॥ ८५९ ॥ यदुक्तम्“वयं येभ्यो जाताश्चिरतरगता एव खलु ते, समं यैः संवृद्धाः स्मृतिविषयतां तेऽपि गमिताः । इदानीमेते स्मः प्रतिदिनसमासन्नपतना, गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः" ॥ 52 ॥ चिरं स्थित्वाऽपि विषयाः प्रयास्यन्ति न संशयः । । तस्मादेते स्वयं त्यक्ता, वरं सुखकृतो हि ते ॥ ८६०॥ यदुक्तम्"अवश्यं यातारचिरतरमुषित्वाऽपि विषया, वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् । . व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः, स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति" ॥ 53 ॥
(नीतिशतक) तुदसारेऽत्र संसारे, विहाय विषयान्तरम् । संगृह्णीत सुधीर्द्धर्मं, सारं सर्वज्ञभाषितम् ॥ ८६१ ॥
• ८६