SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ सदिति । व्यवहारो हि कतिपयान् सत्प्रकारान् प्रकाशयतीत्यल्पविषयः ।।४८।। वर्तमानविषयादृजुसूत्राद् व्यवहारस्त्रिकालविषयावलम्बित्वादनल्पार्थः ।।४९।। कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दाजुसूत्रस्तद्विपरीतवेदकत्वान्महार्थ ।॥५०॥ तद्विपरीतवेदकत्वान्महार्थ इति । शब्दो हि कालादिभेदाद्भिन्नमर्थमुपदर्शयतीति स्तोकविषयः । ऋजुसूत्रस्तु कालादिभेदतोऽप्यभिन्नमर्थं सूचयतीति बहुविषयः ।।५० ।। प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दस्तद्विपर्ययानुयायित्वात्प्रभूतविषयः ।।५१॥ प्रतिक्रियं विभिन्नमर्थं प्रतिजानानादेवम्भूतात् समभिरूढस्तदन्यथार्थस्थापकत्वान्महागोचरः ।।५२॥ एवम्भूतो हि क्रियाभेदेन भिन्नमर्थं प्रतिजानीते इति तुच्छविषयोऽसौ समभिरूढस्तु तद्भेदेनाप्यभिन्नं भावमभिप्रेतीति प्रभूतविषयः ।।५२।। नयवाक्यमपि स्वविषये प्रवर्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति ।।५३।। नयेति । नयसप्तभङ्गीष्वपि प्रतिभङ्गं स्यात्कारस्यैवकारस्य च प्रयोगसद्भावात् । विकलादेशस्वभावा हि नयसप्तभङ्गी वस्त्वंशमात्रप्ररूपकत्वात्, सकलादेशस्वभावा तु प्रमाणसप्तभङ्गी सम्पूर्णवस्तुस्वरूपप्रकाशकत्वात् ।।५३।। एवं नयस्य लक्षणसङ्ख्याविषयान् व्यवस्थाप्य फलमाहुःप्रमाणवदस्य फलं व्यवस्थापनीयम् ।।५४।। २) नयामृतम् ।
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy