________________
समवायिद्रव्यशब्दाश्चाभिमताः क्रियाशब्दा एव दण्डोऽस्यास्तीति दण्डी, विषाणमस्यास्तीति विषाणीत्यस्तिक्रियाप्रधानत्वात् ।।४०।। . .
यथेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः पूरणप्रवृत्तः पुरन्दर इत्युच्यते ।।४।।
क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपँस्तु तदाभासः ।।४२।। · क्रियाविष्टं वस्तु ध्वनिनाभिधेयतया प्रतिजानानोऽपि यः परामर्शस्तदनाविष्टं तत्तेषां तथा क्षिपति न तूपेक्षते स एवम्भूताभासः ।।४२।।
यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवदित्यादि ।।४३।।
पटवदित्यादिरिति । अनेन हि वचसा क्रियानाविष्टस्य घटादेर्वस्तुनो घटादिशब्दवाच्यतानिषेधः क्रियते स च प्रमाणबाधित इत्येवम्भूताभासता ।।४३।।
कः पुनरत्र बहुविषयः को वाल्पविषयो नय इति विवेचयन्तिएतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वादर्थनयाः॥४४।।
शेषास्त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः ॥४५॥ .. : पूर्व:पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः ।।४६।। ... पूर्वेति । नैगमसङ्ग्रहयोस्तावन्न सङ्ग्रहो बहुविषयो नैगमात्परः किं तर्हि
नैगम एव सङ्ग्रहात्पूर्व इत्याहु:. सन्मात्रगोचरसङ्ग्रहानैगमो भावाभावभूमिकत्वाद्भूमविषयः ।।४७।। - सन्मात्रेति । भावाभावभूमिकत्वात् भावाभावविषयत्वात् । भूमविषयो बहुविषयः ।।४७।।
सद्विशेषप्रकाशकाद् व्यवहारतः सङ्ग्रहः समस्तसमूहोपदर्शकत्वाद्बहुविषयः ॥४८॥
"SEARCHSeewana