SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ .. प्रमाणवदिति । अस्येति नयस्य । यथानन्तर्येण प्रमाणस्य सम्पूर्णवस्त्वज्ञाननिवृत्तिः फलमुक्तम् । तथा नयस्यापि वस्त्वेकदेशाज्ञाननिवृत्तिः *फलमानन्तर्येणावधार्यम् । यथा च पारम्पर्येण प्रमाणस्योपादानहानोपेक्षाबुद्धयः सम्पूर्णवस्तुविषयाः फलत्वेनोक्तास्तथा नयस्यापि वस्त्वंशविषयसत्परम्पराफलत्वेन ज्ञेयाः, तदेतद् द्विप्रकारमपि नयस्य फलं ततः कथञ्चिद्भिन्नमभिन्नं वावगन्तव्यम् ।।५४ ।। तदित्यं प्रमाणनयतत्त्वं व्यवस्थाप्याखिलप्रमाणनयाणां व्यापकं प्रमातारमाहुःप्रमाता प्रत्यक्षादिसिद्ध आत्मा ।।५५।। प्रमातेति। प्रत्यक्षादिप्रतीतः प्रत्यक्षपरोक्षप्रमाणप्रतीतः । तथाहि - सुखी दुःखी चाहमित्यांद्यहंप्रत्ययश्चेतनातत्त्वमात्माख्यमर्पयत्येवेति प्रत्यक्षात्सिद्धः । अनुमानतोऽप्यात्मा सिध्दयत्येव, तथाहि - चैतन्यं तत्त्वादिविलक्षणाश्रयाश्रितम्, तत्र बाधकोपपत्तौ सत्यां कार्यत्वान्यथानुपपत्तेः । नायं हेतुर्विशेष्यासिद्धः कटकुटज्ञानादिविचित्रपरिणामपरम्परायाः कादाचित्कत्वेन पटादिवत्तत्रकार्यत्वप्रसिद्धः । नापिं विशेषणासिद्धः न शरीरेन्द्रियविषयाश्चैतन्यधर्माणो रूपादिमत्त्वाद्भौतिकत्वाद्वा घटवदित्यनेन तत्र तस्य बाधनात् । नाप्ययं व्यभिचारी विरुद्धो. वा तन्वादिलक्षणाश्रयाश्रिताद्विपक्षात्तन्वादिवर्तिनो रूपादेः शरीरत्वसामान्याद्वा सविशेषणकार्यत्वहेतोरत्यन्तं व्यावृत्तत्वात् । उपयोगलक्षणो जीव इत्यागमोऽप्यात्मानमुद्योतयति ।।५५।। . • आत्मनः स्वाभिमतधर्मान् वर्णयन्ति. चैतन्यस्वरूपः परिणामी कर्ता साक्षाद्भोक्ता स्वदेहपरिमाणः प्रतिक्षेत्रं भिन्नः पौद्गलिकादृष्टवांश्चायम् ।।५६।। चैतन्येति । चैतन्यं साकारनिराकारोपयोगाख्यं स्वरूपं यस्यासौ चैतन्यस्वरूपः । परिणमनं प्रतिसमयमपरापरपर्यायेषु गमनं परिणामः स साNNNNNNNNNNNodedeedeeNNENT "LASGANTRASTRAMATAASCHIMG o oन८२ 13
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy