________________
द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषान्निह्ववानस्तदाभासः ।।२१।। यथा द्रव्यत्वमेव तत्त्वं ततोऽर्थान्तरभूतानां द्रव्याणामनुपलब्धेरित्यादि ।।२२।। सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते स व्यवहारः ।।२३।। __ सङ्ग्रहेणेति । सङ्ग्रहगृहीतान्सत्त्वाद्यान्विधाय, न तु निषिध्य यः परामर्शविशेषस्तानेव विभजते स व्यवहारः ।।२३।।
यथा यत्सत्तद् द्रव्यं पर्यायो वेत्यादि ।।२४।।
यत्सत्तद् द्रव्यं पर्यायो वेत्यादि । आदिशब्दादपरसङ्ग्रहसङ्ग्रहीतार्थगोचरव्यवहारोदाहरणम्, यद् द्रव्यं तज्जीवादि षड्विधम् । यः पर्यायः सं द्विविधः क्रमभावी सहभावी चेति । एवं यो जीवः स मुक्तः संसारी च । यः क्रमभावी पर्यायः स क्रियारूपोऽक्रियारूपश्चेति।।२४।। . .
यः पुनरपारमार्थिकं द्रव्यपर्यायप्रविभागमभिप्रेति स व्यवहाराभासः ।।२५।। यथा चार्वाकदर्शनम् ।।२६॥
चार्वाको हि प्रमाणप्रतिपन्नं जीवद्रव्यं पर्यायादिप्रविभागं कल्पनारोपितत्वेनापनुते भूतचतुष्टयप्रविभागमात्रं तु स्थूललोकव्यवहारानुयायितया समर्थयते इत्यस्य दर्शनं व्यवहाराभासतयोपदर्शितम् ।।२६।।
द्रव्यार्थिकं त्रिधोक्त्वा पर्यायार्थिकमाहुःपर्यायर्थिकश्चतुर्धा ऋजुसूत्रः शब्दः समभिरूढ एवम्भूतश्च ।।२७।।
ऋजु वर्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः सूत्रयन्नभिप्राय ऋजुसूत्रः ।।२८।।
ऋजु अतीतानागतकाललक्षणकौटिल्यवैकल्यात् प्राञ्जलम् । अयं हि द्रव्यं सदपि गुणीभावान्नार्पयति । पर्यायांस्तु क्षणध्वंसिनः प्रधानतया दर्शयति ।।२८ ।।
नयामृतम्
HTTERSTUDIOकाजळजळ