SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ अयमर्थः- स्वजातेर्दृष्टेष्टाभ्यामविरोधेन विशेषाणामेकरूपतया यद्ग्रहणं स सङ्ग्रहः ।।१३।। अयमुभयविकल्पः परोऽपरश्च ।। १४ ।। अशेषविशेषष्वोदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परः सङ्ग्रहः ।।१५।। विश्वमेकं सदविशेषादिति यथा । । १६ ।। विश्वमेकं सदविशेषादिति यथेति । अस्मिन्नुक्ते हि सदिति ज्ञानाभिधाना नुवृत्तिलिङ्गानुमितसत्ताकत्वेनैकत्वेनैकत्वमशेषार्थनां सङ्गृह्यते ।।१६।। सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषात्रिराचक्षाणस्तदाभासः ।।१७।। सत्ताद्वैतेति । अद्वैतवादिदर्शनान्यखिलानि साङ्ख्यदर्शनं चैतदाभासत्वेन प्रत्येयम् ।।१७।। यथा सत्र्त्तेव तत्त्वं ततः पृथग्भूतानां विशेषाणामदर्शनात् ।। १८ ।। द्रव्यत्वादीनि अवान्तरसामान्यानि मन्वानस्तद्भेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसङ्ग्रहः ।। १९ । । द्रव्येति । द्रव्यत्वमादिर्येषां पर्यायत्वप्रभृतीनां तानि तथा, अवान्तरसामान्यानि सत्ताख्यमहासामान्यापेक्षया कतिपयव्यक्तिनिष्ठानि । तद्भेदेषु द्रव्यत्वाश्रयभूतविशेषेषु द्रव्यपर्यायादिषु गजनिमीलिकामुपेक्षाम् ।।१९।। धर्माधर्माकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाभेदादित्यादिर्यथा ।। २० ।। अत्र द्रव्यं द्रव्यं इत्यभिन्नज्ञानाभिधानलक्षणलिङ्गानुमितद्रव्यत्वात्मकत्वेनैक्यं षण्णामपि धर्मादिद्रव्याणां सङ्गृह्यते । आदितश्चेतनाचेतनपर्यायाणां सर्वेषामेकत्वं पर्यायत्वाविशेषादित्यादि दृश्यम् ।।२०।। नियामृतम् ७७
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy