________________
सदिति । धर्मयोरिति प्रधानोपसर्जनभावेनेति सम्बन्धनीयम् । अत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्य प्राधान्येन विवक्षणम्, विशेष्यत्वात् । सत्त्वाख्यस्य तु व्यञ्जनपर्यायस्योपसर्जनभावेन, तस्य चैतन्यविशेषणत्वादिति धर्मद्वयगोचरो नैगमस्याद्यो भेदः ।।८।।
वस्तुपर्यायवद्रव्यं इति धर्मिणोः ।।९।।
पर्यायवद् द्रव्यं वस्तु वर्तते इति विवक्षायां पर्यायवद्रव्याख्यस्य धर्मिणो विशेष्यत्वेन प्राधान्यम्, वस्त्वाख्यस्य तु विशेषणत्वेन गौणत्वम् । यद्वा किं वस्तुपर्यायवद्र्व्यमिति विवक्षायां वस्तुनो विशेष्यत्वात्प्राधान्यम् पर्यायवद्रव्यस्य तु विशेषणत्वाद् गौणत्वमिति धर्मिद्वयगोचरोऽयं द्वितीयः ।।९।।
क्षणमेकं सुखी विषयासक्तजीव इति तु धर्मधर्मिणोः ।।१०।। . . विषयासक्तजीवाख्यस्य धर्मिणो मुख्यता (विशेष्यत्वात्) सुखलक्षणस्य तु धर्मस्याप्रधानता (विशेषणत्वात्) इति धर्मधालम्बनोऽयं तृतीयः । न चैवमस्य प्रमाणात्मकत्वानुषङ्गो धर्मधर्मिणोः प्राधान्येनात्र ज्ञप्तेरसम्भवात् तयोरन्यतर एव हि नैगमेन प्रधानतयानुभूयेत । प्राधान्येन द्रव्यपर्यायद्वयात्मकं चार्थमनुभवद्विज्ञानं प्रमाणं ज्ञेयं नान्यत् ।।१०।।
धर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धिर्नेगमाभासः ।।१।। धर्मेति । धर्मद्वयादीनामादिशब्दाद्धर्मिद्वयधर्मिधर्मद्वययोः परिग्रहः ।।११।। यथात्मनि सत्त्वचैतन्ये परस्परमत्यन्तपृथग्भूते इत्यादि ।।१२।।
इत्यादिरिति । आदिना वस्त्वाख्यपर्यायवद्रव्याख्ययोधर्मिणोः सुखजीवलक्षणयोः धर्मधर्मिणोश्च सर्वथा पार्थक्येन कथनं तदाभासत्वेन ज्ञेयम् । नैयायिकवैशेषिकदर्शनं चैतदाभासतया ज्ञेयम् ।।१२।।
सामान्यमात्रग्राही परामर्शः सङ्ग्रहः ।।१३।। सामान्येति । सामान्यमानं सत्त्वद्रव्यत्वादिकं गृह्णातीत्येवंशीलः सङ्ग्रहः ।
ediaNANAadhakNeNeedediaNAVANANAनयामतम ఎడ ల
పులు బడా బడా బడా డాడా పై డా .