________________
स्वाभिप्रेतादंशादितरांशापलापी पुनर्नयाभासः ।।२।।
स्वाभिप्रेतेति । नयाभासो दुर्नय इत्यर्थः, यथा तीथिकानां नित्याद्येकान्तप्रदर्शकं सकलं वाक्यम् ।।२।। . स व्याससमासाभ्यां द्विप्रकारः ।।३।।
स प्रकृतो नयः, व्यासो विस्तरः, समासः सक्षेपः । ताभ्यां द्विप्रकारो व्यासनयः समासनयश्चेति ।।३।।
व्यासतोऽनेकविकल्पः ।।४।।
एकांशगोचरस्य हि प्रतिपत्त्रभिप्रायविशेषस्य नयस्वरूपत्वमुक्तम् । ततश्चानंतांशात्मके वस्तुन्येकैकांशपर्यवसायिनो यावन्तः प्रतिपत्तॄणामभिप्रायाः तावन्तो नया इति व्यासतो नयस्यानेकप्रकारत्वमुक्तम् ।।४।।
समासतस्तु विभेदो द्रव्यार्थिकः पर्यायार्थिकश्च ।।५।।
द्रव्यमेवार्थो यस्य विषयत्वेन स द्रव्यार्थिकः, एवं पर्यायार्थिकश्च । एतावैव च द्रव्यास्तिकपर्यायस्तिकाविति द्रव्यस्थितपर्यायस्थिताविति द्रव्यार्थपर्यायार्थाविति च प्रोच्यते । गुणस्य पर्याय एवान्तर्भूतत्वेन पर्यायार्थिकेनैव तत्सङ्ग्रहात् .(गुणार्थिकस्य पृथग् नोक्तिः) ।।५।।
आद्यो नैगमसंग्रहव्यवहारभेदात्त्रेधा ।।६।।
धर्मयोधर्मिणोः धर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमो नैगमः ।।७।।
. धर्मेति । पर्याययोर्द्रव्ययोर्द्रव्यपर्याययोश्च मुख्याऽमुख्यरूपतया यद्विवक्षणं स एवंरूपोऽनैके गमा बोधमार्गा यस्यासौ नैगमः ।।७।।
अस्योदाहरणाय सूत्रत्रयीमाहुःसचैतन्यमात्मनीति धर्मयोः ।।८।।
(जयारत
N NNNNNNNNNNANHdKelkatnam Demodaalaicolaterwasnast
जन