SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ यथा सुखविवर्तः सम्प्रत्यस्तीत्यादि । । २९ । । सुखविवर्तः सम्प्रत्यस्तीत्यादि । अनेन हि वाक्येन क्षणस्थायि सुखाख्यं पर्यायमात्रं प्राधान्येन प्रदर्श्यते, तदधिकरणभूतं त्वात्मद्रव्यं गौणतया नार्प्यते । आदितो. दुःखपर्यायोऽस्तीत्यादि । । २९ ।। सर्वथा द्रव्यापलापी तदाभासः ।। ३० ।। यथा तथागतमतम् ।।३१ ।। तथागतो हि प्रतिक्षणविनश्वरान् पर्यायानेव पारमार्थिकतया समर्थयते तदाधारभूतं तु द्रव्यं तिरस्कुरुते इत्येतन्मतं तदाभासतयोदाहृतम् ।।३१ ।। कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः । । ३२।। कालेति । कालादिभेदेन काल - कारक- लिङ्ग - सङ्ख्या-पुरुषोपसर्गभेदेन ||३२|| यथा बभूव भवति भविष्यति सुमेरुरित्यादि ।।३३।। सुमेरुरित्यादिः । अत्रातीतवर्तमानभविष्यत्कालत्रयभेदात् कनकाचलस्य भेदं शब्दनयः प्रतिपद्यते, द्रव्यरुपतया पुनरभेदममुष्योपक्षते । एतच कालभेदे . उदाहरणम् । करोति क्रियते कुम्भ इति कारकभेदे, तटस्तटी तटमिति लिङ्गभेदे, दाराः कलत्रमित्यादि सङ्ख्याभेदे, एहि मन्ये रथेन यास्यसि नहि यास्यसि यातस्ते पितेति पुरुषभेदे, सन्तिष्ठते अवतिष्ठते इत्युपसर्गभेदे ।। ३३ ।। तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः ।। ३४ ।। तद्भेदेन कालादिभेदेन तस्य ध्वनेस्तमेवार्थभेदमेव । शब्दाभासः । । ३४ ।। यथा बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात्तादृक्सिध्दान्यशब्दवदित्यादि । । ३५ ।। नयामृतम् ७९
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy