SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ कथं निरस्तं ? तदाह पूजेति । पूजादिविधयः प्रतिष्ठितां प्रतिमां पूजयेदित्यादिवाक्यलक्षणा ज्ञानविधेः प्रतिष्ठितां प्रतिमां भगवद्भिन्नत्वेनाध्यारोपयेदित्यंगवाक्यात्मकस्यांगित्वं प्रधानत्वमाश्रिताः शाश्वताशाश्वतार्चासु विभेदेन भिन्नरूपेण व्यवस्थिता विधिविषयनिर्वाहत्वं अशाश्वतप्रतिमास्थले, अन्यत्र त्वनादिप्रतिष्ठितत्वप्रत्यभिज्ञाया एव तथात्वं, तादृशशिष्टाचारेण तथैव विधिबोधनादिति ।।१०५।। एतेन व्यवहारेऽपि स्थापनानाग्रहो हतः । तत्रार्धजरतीयं किं नाम्नापि व्यवहर्तरि ।।१०६।। एतेन युक्तिकदबंकेन संग्रहे स्थापनाव्यवस्थापनेन व्यवहारेऽपि स्थापनाया अनाग्रहोऽस्वीकारो हतो निरस्तः केषांचिदाचार्याणां, यतस्तत्र व्यवहारे नाम्नापि नामनिक्षेपेणापि व्यवहर्तरि व्यवहारमभ्युपगच्छति, किमिदमर्धजरतीयं यदुपनया (यदुपमया) न व्यवहार इति, न हीन्द्रप्रतिमायां नेन्द्रव्यवहारो भवति ।।१०६।। ऋजुसूत्रेऽपि ये द्रव्यनिक्षेपं प्रवदन्ति न । . व्याख्येया तैः कथं तत्र द्रव्यावश्यकसूत्रगीः ।।१०७॥ ____ ऋजुसूत्रेऽपि ये द्रव्यनिक्षेपं न स्वीकुर्वते तान् दूषयति अनुपयोगो द्रव्यमिति, तत्र तैर्द्रव्यावश्यकगी: कथं व्याख्येया ? ।।१०७ ।। तस्माद्यथोक्तनिक्षेपविभागो भाष्यसंमतः । इतीयं मुहुरालोच्या निक्षेपनययोजना ।।१०८।। जातं द्रव्यास्तिकाच्छुद्धाद् दर्शनं ब्रह्मवादिनाम् । तत्रैके शब्दसन्मानं चित्सन्मानं परे जगुः ।।१०९।। .... एके ब्रह्मवादिनः शब्दसन्मात्रमिच्छन्ति अन्ये चित्सन्मात्रमिच्छन्ति ।।१०९।। अशुद्धाद् व्यवहाराख्यात्ततोऽभूत् सांख्यदर्शनम् ।। चेतनाचेतनद्रव्यानन्तपर्यायदर्शकम् ॥११०।। ____ व्यवहाराख्यादशुद्धात् ततो द्रव्यार्थिकनयात् सांख्यदर्शनमभूत्, कीदृशं तत् ? चेतनश्चाचेतनद्रव्यं चानन्तपर्यायाश्चाविर्भावतिरोभावात्मकास्तेषां दर्शकं प्रतिपादकमिति ।।११०।। (नयामृतम् । "STATTOOCHOOTDAICHOOTOCHORDनकलनमज्ज न
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy