SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ न। . . सा हि स्थाप्या स्मृतिद्वारा भावादरविधायिनी । न चोत्कटतरे दोषे स्थाप्यस्थापकभावना ।।१०।। सा स्थापनाधीः ।।१०० ।। यद्वा प्रतिष्ठाविधिना स्वात्मन्येव परात्मनः । . स्थापना स्यात् समापत्तिबिंबे सा चोपचारतः ।।१०१।। .. यद्वा पक्षान्तरे प्रतिष्ठाविधिना प्रतिष्ठाकारयितुः स्वात्मन्येव परात्मनः परमत्रिभुवनभर्तुर्थ्यानरूपा समापत्तिरेव स्थापना स्यात्, निश्चयतः सा प्रतिष्ठा, बिंबे चोपचारतः ।।१०१।। प्रतिष्ठितप्रत्यभिज्ञासमापन्नपरात्मनः । आहार्यारोपतः स्याश्च द्रष्टुणामपि धर्मभूः ।।१०२।।.. स्थापना प्रतिष्ठितप्रतिज्ञया समापन्नो यः परमात्मा भगवांस्तस्याहार्यारोपतो द्रष्टुणामुपलक्षणाद्वन्दकानां पूजकानां धर्मभूधर्मकारणं भवति ।।१०२।। तत्कारणेच्छाजनकज्ञानगोचरबोधकाः ।' विधयोऽप्युपयुज्यन्ते तेनेदं दुर्मतं हतम् ।।१०३।। तस्याहार्यारोपस्य कारणं या इच्छा तज्जनकं यत्प्रतिष्ठितप्रतिमाभगवदभेदेनाध्यारोपयेदिति विधिजनितं ज्ञानं तद्गोचरीभूताः प्रतिष्ठाया बोधका इष्टसाधनत्वबोधनादिद्वारा तदुत्पतिहेतव इति यावत्, विधयो विधिवाक्यान्यप्युपयुज्यन्तें फलवन्तो भवन्ति, तेनेदं वक्ष्यमाणं दुर्मतमाध्यात्मिकाभासानां हतं निराकृतम् ।।१०३।। प्रतिष्ठाद्यनपेक्षायां शाश्वतप्रतिमार्चने । अशाश्वता_पूजायांको विधिः किं निषेधनम् ।।१०४॥ . . किं तदित्याह-शाश्वत इति स्पष्टं, प्रतिष्ठितप्रतिमां पूजयेदिति विधिरप्रतिष्ठितां न पूजयेदिति निषेधनं च, किं ? विधिनेषेधार्थान्वयस्यायोग्यत्वादिति ।।१०४ ।। पूजादिविधयो ज्ञानविध्यंगित्वं यदाश्रिताः । शाश्वाताशाश्वतार्चासु विभेदेन व्यवस्थिताः ।।१०५।। STATUSCOTA BACHARCOSकाजळजककककट नयामृतम्
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy