SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ नामातिरिक्तो नामेन्द्रो लक्ष्य इन्द्रपदस्य हि । तस्य मुख्यार्थसादृश्यैवैसादृश्ये च नाग्रहः ।।१४।। • वैसदृश्ये सादृश्ये वा निमित्ते नाग्रहः कर्तव्यः ।।९४ ।। इदं कैश्चिन्मतं तक भाष्ये दूषितमुचकैः । नाम्नैव द्रव्यनिक्षेपेऽप्येवं संग्रहसंभवात् ।।१५।। इदं मतं भाष्ये दूषितम् ।।१५।। . परिणामितया द्रव्यं वाचकत्वेन नाम च । . भावस्थमिति भेदश्चेन्नाम्नेन्द्रे दुर्वचं ह्यदः ।।१६।। परिणामितया द्रव्यं भावे संबध्दं, नाम च वाचकत्वेन वाच्यवाचकभावेन संबध्दं चेत्, अदो नियामकं नामेन्द्रगोपालदारके दुर्वचम् ।।१६।। परिणामित्वभित्रश्चेन्नामनिक्षेपलक्षकः । संबन्ध इष्टः साम्यादिभिन्नः किं न तथेष्यते ।।१७।। नामनिक्षेपलक्षणः परिणामित्वभिन्न एव द्रष्टव्यस्तदा स्थापनाया अपि साम्यादिभिन्नः संबन्धः ।।९७.।। अतिप्रसंगो नैवं चाभिप्रायाकारयोगतः । ___ यच्छ्रुतोक्तमनुल्लंघ्य स्थापना नाम चान्यतः ।।१८।। . एवमुक्तासंकरप्रकारेण चातिप्रसंगो न भवति, यछुतोक्तं सिद्धान्तवचनमनुल्लंघ्याक्षादौ एवाभिप्रायसंबन्धं प्रतिमादौ चाकारसंबन्धं पुरस्कृत्य स्थापनाद्रियतेऽन्यतोऽन्यस्थले च नामनिक्षेप इति ।।९८।। . . .. अत एव न धीरर्हत्प्रतिमायामिवार्हतः । . भावसाधोः स्थापना या द्रव्यलिंगिनि कीर्तिता ।।१९।। अत एवार्हत्प्रतिमायामर्हतो धीरिव द्रव्यलिंगिनि प्रकटप्रतिषेविणि पार्श्वस्थादौ स्थापना भावसाधोधीः सिद्धान्ते न कीर्तिता ।।९९।। MANNNNNNNNNNNNhat
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy