SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ यद्यप्येतन्मतेऽप्यात्मा निर्लेपो निर्गुणो विभुः । अध्यासाद् व्यवहारश्च ब्रह्मवादेऽपि संमतः ।।१११।। एतन्मते सांख्यमते आत्मा कर्तृत्वादिलेपरहितो गुणस्पर्शशून्यः ।।१११।। प्रत्युतात्मनि कर्तृत्वं सांख्यानां प्रातिभासिकम् । वेदान्तिनां त्वनिर्वाच्यं मतं तद् व्यावहारिकम् ।।११२।। अनुत्पन्नत्वपक्षश्च निर्युक्तौ नैगमे श्रुतः । . . नेति वेदान्तिसांख्योक्तयोः संग्रहव्यवहारता ।।११३।। तथाप्युपनिषदृष्टिः सृष्टिवादात्मिका पस । - तस्यां स्वप्नोपमे विश्वे व्यवहारलवोऽपि न ।।११४।। तथाप्युपनिषद्वेदान्तदर्शनप्रवृत्तिः ।। ११४ ।। . सांख्यशास्त्रे च तनात्मव्यवस्थां व्यवहारकृत् । इत्येतावत्पुरस्कृत्य विवेकः संमतावयम् ।।११५।। तात्पर्यविषयीकृत्य अयम् ।।११५ ।। . हेतुर्मतस्य कस्यापि शुद्धोऽशुद्धो न नैगमः । अन्तर्भावो यतस्तस्य संग्रहव्यवहारयोः ।।१६।। द्वाभ्यां नयाभ्यामुत्रीतमपि शास्त्रं कणाशिना । . अन्योऽन्यनिरपेक्षत्वान्मिथ्यात्वं स्वमताग्रहात् ।।११७ ।। द्वाभ्यां सामान्यविशेषग्राहिभ्यां संग्रहव्यवहाराभ्यां नयाभ्याम् ।।११७ ।। स्वतंत्रव्यक्तिसामान्यग्रहा येऽत्र तु नैगमे । औलूक्यसमयोत्पत्तिं ब्रूमहे तत एव हि ।।१८।। ऋजुसूत्रादितः सौत्रान्तिकवैभाषिको क्रमात् । अभूवन् सौगता योगाचारमाध्यमिकाविति ।।११९।। . ' ల ల ల ట బ ల ట ల డ ల ల ల ల డ డ ప " "
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy