________________
परिणतिरूपभावघटस्य द्रव्यार्थिकेनाभ्युपगमादिति वयं जानीमहे । तथा च भाष्ये पूर्वे शुद्धचरणरूपभावमंगलाधिकारप्रवृत्तेर्नैगमादिना जलाहरणादि'रूपभावघटाभ्युपगमेऽपि घटोपयोगरूपभावघटानभ्युपगमात्तन्निषेधोक्तिः, अग्रे तु व्यवस्थाधिकारद्विशेषोक्तिरिति न विरोधः ॥ ८४ ॥ ।
तत्र नामघटः प्रोक्तो घटनाम्ना पटादिकः ।
तचित्रं स्थापनाद्रव्यं मृद्भावो रक्तिमादिकः ।।८५ ।।
ऊक्तं निक्षेपचतुष्टयं तत्र निक्षेपचतुष्टयमध्ये घटनाम्ना क्लृप्तः पटादिकोऽपि नामघट उच्यते, शेषं स्पष्टम् ।।८५ ।।
एकद्रव्येऽप्यात्मनामाकृतिकारणकार्यताः ।
• पुरस्कृत्य महाभाष्ये दिष्टा पक्षान्तरेण ते ।। ८६ ।
एकस्मिन्नपि द्रव्ये आत्मनो विवक्षितपदार्थस्य नामाभिधायकं पदं नाम, आकृतिः संस्थानं, कारणता तत्पर्यायजननशक्तिर्द्रव्यं, कार्यता तद्रूपेणाभिव्यक्तिर्भावः, एताः पुरस्कृत्य मेलयित्वा भिन्नपक्षाभिप्रायेण ते नामादयश्चत्वारोऽपि निक्षेपा महाभाष्ये दिष्टाः प्रतिपादिताः ।।८६ ।।
अप्रज्ञाप्याभिधाद्रव्यजीवद्रव्याद्ययोगतः ।
न चाव्यापित्वमेतेषां तत्तभेदनिवेशतः ।।८७।।
एतेषां नामादीनां निक्षेपाणामप्रज्ञाप्ये वस्तुनि अभिधाया नाम्नोऽप्रयोगाज्जीवद्रव्ययोश्च जीवत्वेन द्रव्यत्वेन भूतभविष्यत्पर्यायाभावेन तत्कारणत्वाभावाद् द्रव्यनिक्षेपस्यायोगात्, न चाव्याप्तिः ।। ८७ ।।
इतीयं प्रायिकी व्याप्तिरभियुक्तैर्निरूप्यते । यत्तत्पदाभ्यां व्याप्तिश्चानुयोगद्वारनिश्चिता ।।८८ ।।
कुतः प्रायिकी अभियुक्तैः पंडितैर्निरूप्यते, व्याप्तिश्च यत्तत्पदाभ्यामनुयोगद्वारसूत्रादेव निश्चिता
नयामृतम्
६३