________________
तेनादौ निश्चयोद्ग्राहो नग्नानामपहस्तितः ।
रसायनीकृतविषप्रायोऽसौ न जगद्धितः ।।७९।। तेन सूत्रोक्तरीतिलंघनेनादौ निश्चयनयोपन्यासो दिगंबराणामपहस्तितो . निराकृतः, असौ निश्चयो न जगद्धितः, यथा रसायनीकृतं विषं सर्वेषां न हि हिताय ।।७९।।
उन्मार्गकारणं पापं परस्थाने हि देशना ।
बालादेर्नान्ययोग्यं च वचो भेषजवद्धितम् ।।८।। परस्थाने स्वाधिकारिभिन्नाधिकारिणि निमित्ते हि निश्चितं देशनोन्मार्गकारणमिति हेतोः पाप इति । न च बालादेमध्येऽन्ययोग्यं वचोऽन्यस्य भेषजवद्धितम् ।।८।।
ये सीदन्ति क्रियाभ्यासे ज्ञानमात्राभिमानिनः । निश्चयानिश्चयं नैते जानन्तीति श्रुते स्मृतम् ।।८१।। इष्टः शब्दनयैर्भावो निक्षेपा निखिलाः परैः ।
मतं मंगलवादेऽन्यद्भिदां द्रव्यार्थिके त्रये ।।२।। अथ निक्षेपाधिकारः शब्दनर्भावनिक्षेप इष्टः पर्यायार्थिके भावनिक्षेप एव परैः, द्रव्यार्थिकेन निखिलाश्चत्वारोऽपि निक्षेपास्तत्कथं संगच्छते मंगलवादे यदुक्तं भाष्यकृता द्रव्याथिके भिदां त्रये नामस्थापनाद्रव्यलक्षणे मंगलवादेऽभिहितेऽन्यन्मतं पुरस्कृतमिति शेषः तत्त्वार्थवृत्तावपि ।।८२।।
द्रव्यार्थे गुणवाञ्जीवः पर्यायार्थे च तद्गुणः ।
सामायिकमिति प्रोक्तं यद्दिशावश्यकादिषु ।।८३।। आवश्यकादिषु ग्रन्थेषु द्रव्यार्थिकनये गुणवान् जीवः सामायिकं, पर्यायार्थिकनये च जीवस्य गुणः सामायिकमिति प्रोक्तं, तन्मतमेतदित्यर्थः ।।८३।।
घटोपयोगरूपो वा भावो द्रव्यार्थिकेऽमतः ।
तेन तत्र त्रयं प्रोक्तमिति जानीमहे वयम् ।।८४।। इति मतान्तरमग्रेतनवचनेन सहाविरोधं समर्थयन्नाह घटेति । वेति पक्षान्तरे घटोपयोगरूपो भावो द्रव्यार्थिकेऽमतोऽनिष्टस्तेन तत्र मंगलवादे द्रव्यार्थिके त्रयं नामादिनिक्षेपत्रयं प्रोक्तं, न तु सर्वथा भावानभ्युपगमाभिप्रायेण जलाहरणादि
comadATESooconomकककककककर
नयामृतम्