SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ · त्रयः शब्दनयाः शब्दसमभिरूद्वैवंभूताख्याः स्वप्रदेशेष्वेव वसतिं प्राहुः, स्वस्य मुख्याया वसतेः संभवात्, आकाशप्रदेशानामपि परद्रव्यत्वेन स्वसंबन्धस्याघटनात् ।।७३।। शुद्धा ह्येतेषु सूक्ष्मार्था अशुद्धा स्थूलगोचराः । ___ फलतः शुद्धतां त्वाहुर्व्यवहारे न निश्चये ।।७४।। एतेषु नयेषु ये यतः सूक्ष्मार्थास्ते ततः शुद्धाः, ये च यतः स्थूलगोचरास्ते ततोऽशुद्धाः, शुद्धाः स्वरूपतः शुद्धतां प्राहुर्व्यवहारनये न तु निश्चये ।।७४ ।। क्रियाक्रियाफलौचित्यं गुरुः शिष्यश्च यत्र न । . देशनानिश्चयस्यास्य पुंसां मिथ्यात्वकारणम् ।।५।। तथाहि-क्रियाक्रियाफलयोरौचित्यमित्यादि यत्र निश्चयनयेन हि, यतः दूहो"नहि निश्चयइ शिष्य गुरु, क्रियाक्रियाफलयोग । दाता नहि भोक्ता नहि, निष्फल सवई संयोग ।।१।।"।।७५ ।। परिणामे नयाः सूक्ष्मा हिता नापरिणामके । न वातिपरिणामे च चक्रिणो भोजनं यथा ।।७६।। परिणामे ऐदंपर्यार्थश्रद्धायां सूक्ष्मार्था नया हिताः, पुनरपरिणामके उत्सर्गेकरुचौ पुरुषे न हिताः तथातिपरिणामकेऽपवादैकरूचौ पुरुषे न हिताः ।।७६।। आमे घटे यथा न्यस्तं जलं स्वघटनाशकृत् । तथाऽपरिणते शिष्ये रहस्यं नयगोचरम् ।।७७।। पृथक्त्वे नाधिकारस्तत्रयानां कालिकश्रुते । अधिकारस्त्रिभिः प्रायो नयैर्युत्पत्तिमिच्छताम् ।।७८।। ... तत्तस्मात्कारणानिश्चयनयः स्तोकानामुपकारकत्वाद्बहूनां चापकारकत्वाञ्चक्रिभोजनवत् सूक्ष्मनयानां च बहूनामुपकारकत्वात्कालिकश्रुते पृथक्त्वेऽनुयोगचतुष्टयपृथक्करणे सति नयानां सर्वेषां नयानामधिकारो नास्ति योजनायां इति शेषः, किं त् त्रिभिनेंगमसंग्रह-व्यवहारैर्नयैर्युत्पत्तिमिच्छतां शिष्याणां हितमिति शेषः प्रायोऽधिकार इति ।।७८।। १. भुङ्कतेऽन्यः कुरुते चान्यो गुरुः शिष्यश्च यत्र न । देशना निश्चयस्यास्य पुंसां मिथ्यात्वकारणम् ।।७६।। इत्यधिकः श्लोकः स्वोपज्ञवृत्तियुते नयोपदेशे । नयामृतम् । "ASTHAITANCHASHMAtmajess क न द
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy