________________
मते स प्रस्थको ज्ञकर्तृगताद्भावानातिरिच्यते न भिद्यते, ज्ञः कर्ता च ज्ञकर्तारी, ज्ञकोंर्गतो ज्ञकर्तृगतस्तस्मादिति समासः, प्रस्थकाकारज्ञगतात्प्रस्थककर्तृगताद्वा प्रस्थकोपयोगादतिरिक्तं प्रस्थकं न सहते इति प्रस्थकदृष्टान्तः ।। ६६ ।। ____ लोके च तिर्यग्लोके च जंबूद्वीपे च भारते। .
क्षेत्रे तदक्षिणार्द्ध च पाटलीपुत्रपत्तने ।।६७।। अथ वसतिदृष्टान्तः-कुत्र भवान् वसतीति पृष्टे ।।६७।।
गृहे च वसतिः कोणे नैगमव्यवहारयोः । अतिशुद्धौ तु निवसन् वसतीत्याहतुः स्म तौ ।।६८।। तदर्थस्तत्र तत्कालावच्छिन्ना तस्य वृत्तिता ।
वसत्यद्य न सोऽत्रेति व्यवहारौचिती ततः ।।६९।। तदर्थो वसन् वसतीत्यस्यार्थः, तत्र पाटलीपुरे तस्य देवदत्तस्य वर्तमानकालावच्छिन्न-वृत्तितालक्षणयार्थः कर्तव्यः पाटलीपुरादेकस्मिन् दिनेऽन्यत्र गते देवदत्तेऽद्य सोऽत्र न वसतीति व्यवहारस्यौचित्यं ।।६९।।
यत्र तत्र गतस्यापि तद्वासित्त्वं निगद्यते । तद्वासवृत्तिभागित्वे ज्ञेयं तत्त्वौपचारिकम् ।।७०।। संग्रहो वसतिं ब्रूते जन्तोः संस्तारकोपरि ।' ऋजुसूत्रः प्रदेशेषु स्वावगाहनुकृत्सु खे ।।७१।। तेष्वप्यभीष्टसमये न पुनः समयान्तरे ।
चलोपकरणत्वेनान्यान्यक्षेत्रावगाहनात् ।।७२।। तेषु स्वावगाहकाकाशप्रदेशेष्वपि अभीष्टसमये विवक्षितवर्तमानकाले वसतिर्न पुनर्भिन्नकाले, वीर्यसंयोगवद्राव्यकरणचापल्येन प्रतिसमयमन्यान्यक्षेत्रस्यापरापराकाशप्रदेशानामवगाहनादिति ।।७२।।
स्वस्मिन् स्ववसतिं प्राहुस्त्रयः शब्दनया: पुनः । एषानुयोगद्वारेषु दृष्टान्तमययोजना ।।७३।।।
HomewomeHotmarathastments
"