SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ -- अपिश्चार्थः, जीवे स्कन्धे च अनन्ते नोशब्दाद्देशावधारणं कर्तव्यं, जीवे जीव इति वा नोजीवः स्कन्ध इति वा प्रदेशो नोस्कन्ध इति ।।६।। ब्रूते समभिरूढस्तु भेदाप्तेरत्र सप्तमीम् । देशप्रदेशनिर्मुक्तमेवंभूतस्य वस्तु सत् ।।१।। समभिरूढनयस्तु धर्मे प्रदेश इत्यादि सप्तमीसमासं ब्रूते । अत्र कुंडे जलवद्भेदे सप्तमी, घटे घटस्वरूपं इत्यादौ क्वचिदभेदे सप्तमी । एवंभूतनयस्य मते देशप्रदेशनिर्मुक्तं देशप्रदेशकल्पनारहितमखंडमेव वस्तु सत्, देशप्रदेशकल्पना तु भ्रममात्रमिति तन्मते नास्त्येव प्रदेश इत्यर्थः ।।६।। प्रस्थकार्थं व्रजामीति वने गच्छन् ब्रवीति यत् । आदिमो ह्युपचारोऽसौ नैगमव्यवहारयोः ।।२।। अत्र प्रस्थकशब्देन क्रियाविष्टवनैकधीः । प्रस्थकेऽहं व्रजामीति [पचारोऽपि च स्फुटः ।।३।। छिनधिप्रस्थकंतक्ष्णोम्युत्किराम्युल्लिखामि च । करोमि चेति तदनूपचाराः शुद्धताभृतः ।।६४।। तमेतावति शुद्धौ तूत्कीर्णनामानमाहतुः । चितं मितं तथा मेयारूढमेवाह संग्रहः ।।६५।। • एतावति शुद्धौ नैगमव्यवहारनयौ तं प्रस्थकं प्रस्थकपर्यायवन्तमाहतुः । संग्रहनयस्तु चितमासादितप्रस्थकपर्यायं मितमाकुहितनामानं मेयं धान्यविशेषमारूढं च प्रस्थकमाह ।।६५।। प्रस्थकश्च सूत्रस्य मानं मेयमिति द्वयम् । न कर्तृगताद् भावाच्छाब्दानां सोऽतिरिच्यते ।।६।। ऋजुसूत्रस्य मानं मेयं चेति द्वयमेव तत्परिच्छेदासंभवान्मेयारूढप्रस्थकः प्रस्थकत्वेन व्यपदिश्यत इति । शब्दानां शब्दसमभिरूद्वैवंभूतानां त्रयाणां नयानां नयामृतम् " ఎటుబడులు పెడా లా ల ల డ డా డి డా
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy