SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ नैगमो नयो धर्मास्तिकायादिस्कन्धानां तद्देशस्य प्रदेश इति षण्णां तं प्रदेशमुञ्चकैः स्वमतनिर्बन्धेनाह ।।५४ ।। दासेन मेखरः क्रीतोदासोममखरोऽपि मे। इति स्वदेशस्वाभेदात् पंचानामाह संग्रहः ।।५५।। संग्रहनयस्तु स्वदेशे धर्मास्तिकायादिदेशे स्वाभेदाद्धर्मास्तिकायाद्यभेदात् पंचानां प्रदेशमाह यथा संग्रहस्यान्वर्थत्वं क्रयजन्यदासनिष्ठं खरस्वामित्वम् ।।५५।। . व्यवहारस्तु पंचानां साधारण्यं न वित्तवत् । ... इति पंचविधो वाच्यः प्रदेश इति मन्यते ।।५६।। व्यवहारनयस्तु इति मन्यते यथा पंचाना वित्ते द्रव्ये साधारणं स्वामित्वं तथा. प्रदेशे न साधारणं पंचवृत्तित्वं पंचानां प्रदेश इति न वाच्यं, किं तु पंचविधः प्रदेश इति वाच्यम् ।।५६।। पंचप्रकारः प्रत्येकं पंचविंशतिधा भवेत । प्रत्येकवृत्तौ प्राक्पक्षः स्यादेहेष्विव वाजिनाम् ।।५७।। प्रत्येकवृत्तिः साकांक्षा बहुत्वेनेति सोऽप्यसन् । ' ऋजुसूत्रस्ततो ब्रूते प्रदेशभजनीयताम् ।।५८।। पंचप्रकार: पंचविधः प्रदेशः, यदि च गेहेषु शतमश्वा इत्यत्रेव प्रत्येकवृत्तित्वान्वयः प्रकृते स्वीक्रियते तदा प्राक् पक्षः पंचाना प्रदेश इति संग्रहनयपक्ष एव परिष्कृतः ।।५८।। भजनाया विकल्पत्वाव्यवस्थैवमपैति तत् । . धर्म धर्मः प्रदेशो वा धर्म इत्यादिनिर्णयः ॥५९।। व्यवहारनयः प्राह-धर्म धर्मास्तिकाये यः प्रदेशः स धर्म धर्मास्तिकाय इति सप्तमीतत्पुरुषेण, धर्मास्तिकायश्चासौ प्रदेशो धर्मास्तिकाय इति कर्मधारयेण वा निर्णयः कर्तव्यः, एवमधर्मास्तिकाय आकाशास्तिकायश्च ज्ञेयौ ।।५९।। जीवे स्कन्धेऽप्यनन्ते नोशब्दाद्देशावधारणम् । इति शब्दनयः प्राह समासद्वयशुद्धिमान् ।।६०।। JASTHANICHATANTHATANTOS क कककका
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy