SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ आत्मत्वमेव जीवत्वमित्ययं सर्वसंग्रहः । जीवत्वप्रतिभूः सिद्धेः साधारण्यं निरस्य न ।। ४९ ।। आत्मत्वमेव जीवत्वं निश्चयान्न साधारण्यम् ।।४९।। यज्ञ्जीवत्वं क्वचिद्द्रव्यभावप्राणान्वयात् स्मृतम् । विचित्रनैगमाकूतं तज्ज्ञेयं न तु निश्चयात् ।।५० ।। एवं निश्चयतः सिद्धस्याजीवत्वं प्रोक्तं तर्हि कथं - ' जीवा मुत्ता संसारिणो य' इत्यादि ? तदुपर्याह-यज्जीवत्वं क्वचिद्ग्रन्थे द्रव्यप्राणानां भावप्राणानां चान्वयादेकीकरणात् स्मृतं संसारिसिद्धसाधारणमिति शेषः, तद्विचित्रो विविधावस्थो यो नैगमस्तस्याभिप्रायाज्ज्ञेयम् ।। ५० ।। धात्वर्थे भावनिक्षेपात् परोक्तं न च युक्तिमत् । प्रसिद्धार्थोपरोधेन यन्त्रयान्तरमार्गणा ।। ५१ ।। धात्वर्थे जीवत्यर्थे भावप्राणारोपणात् परोक्तं निश्चयतः सिद्ध एव जीव इति दिगंबरोक्तं नैव युक्तिमत् ।। ५१ । । नयामृतम् शैलेश्यन्त्यक्षणे धर्मो यथा सिद्धस्तथाऽसुमान् । वाच्यं नेत्यपि यत्तत्र फले चिन्तेह धातुगा । । ५२ ।। यथा शैलेशीचरमसमये निश्चयतो धर्मस्तस्मादर्वाग्व्यवहारतो धर्मः, तथाऽसुमान् जीवोsपि निश्चयतः सिद्ध एव भविष्यति इत्यपि न वाच्यं । यतो धारयति सिद्धिगतावात्मानमिति धर्म इति फले फलरूपे धात्वर्थे चिन्ता ।। ५२ ।। उक्ता नयार्थास्तेषां ये शुद्ध्यशुद्धी वदेत् सुधीः । ते प्रदेश प्रस्थकयोर्वसतेश्च निदर्शनात् ।। ५३ ।। ये शुद्ध्यशुध्दी स्तः सुधीः पंडितस्ते शुद्ध्यशुद्धी वदेत् प्रदेशप्रस्थकवसतिदृष्टान्तैः ।।५३ ।। तथाहि धर्माधर्माकाशजीवस्कन्धानां नैगमो नयः । तद्देशस्य प्रदेशश्चेत्याह षण्णां तमुच्चकैः ।। ५४ ।। ५७
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy