________________
तटस्तटं तटीत्यादौ शब्दभेदोऽर्थभिद्यदि । तद् घट: कुंभ इत्यादौ कथं नेत्यस्य मार्गणा ।।३७।। संज्ञार्थतत्त्वं न ब्रूते त्वन्मते पारिभाषिकी ।
अनादिसिद्धः शब्दार्थो नेच्छा तत्र निबन्धनम् ।।३८॥ पारिभाषिकी संज्ञा डित्थडवित्थादिका ।।३८।।
एवंभूतस्तु सर्वत्र व्यञ्जनार्थविशेषणः ।
राजचिनैर्यथा राजा नान्यदा राजशब्दभाक् ।।३९।। व्यञ्जनं शब्दस्तेनार्थं विशेषयति स एवंभूतः ।।३९।।
सिद्धो न तन्मते जीवः प्रोक्तः सत्त्वादिसंज्यपि ।
महाभाष्ये च तत्त्वार्थभाष्ये धात्वर्थबाधतः ।।४०।। जीवति प्राणान् बिभर्तीति धात्वर्थः ।।४०।। .
जीवोऽजीवश्च नोजीवो नोअजीव इतीहिते ।
जीव: पंचस्वपि गतिष्विष्टो भावैर्हि पंचभिः ।।४।। जीवः, अजीवः, नोजीवः, नोअजीवः, एषां लक्षणानि- औदयिकक्षायिक- . क्षायोपशमिकोपशमिकंपारिणामिकलक्षणैः पंचभिर्लक्षितो जीवः ।।४।।
नजि सर्वनिषेधार्थे पर्युदासे च संश्रिते ।
पुद्गलप्रभृतिद्रव्यमजीव इति संज्ञितम् ।।४।। नञि सर्वत्र निषेधार्थेऽत्राजीवः पुद्गलादिकं द्रव्यम् ।।४२।।
नोजीव इति नोशब्दे जीवसर्वनिषेधके ।
देशप्रदेशौ जीवस्य तस्मिन् देशनिषेधके ।।४३।। नोजीव इत्यत्र तु नोशब्दे देशनिषेधके जीवस्य देशप्रदेशौ अंगीकर्तव्यौ ।।४३।।
जीवो वा जीवदेशो वा प्रदेशो वाप्यजीवगः । अनयैव दिशा ज्ञेयो नोअजीवपदादपि ।।४४।।
-
नबिन
नयामतम
ల ల ల ల ల
ల ల డ ప డ బ
డ త ం