SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ "तेणेह कज़माणं णियमेय कयं कयं तु भयणिजं । किंचिदिह कजमाणं उवरयकिरियं च होजाहि ।।१।। इति” ।।३।। दह्यमानेऽपि शाट्येकदेशे स्कन्धोपचारतः । शाटी दग्धेति वचनं ज्ञेयमेतत्रयाश्रयम् ।।३।। शाटी दग्धेति कथं तदानीं शाटीदाहक्रियाकालसंवलितस्य तनिष्ठांकालस्याभावादिति ? उत्तरं - शाट्येकदेशे दह्यमानेऽपि तत्र स्कन्धोपचारतः शाटीस्कन्धवाचकशाटीपदोपचाराच्छाटी दग्धेति वचनमेतन्नयाश्रयमृजुसूत्राभिप्रायकं ज्ञेयम् ।।३।। विशेषिततरः शब्दः प्रत्युत्पन्नाश्रयो नयः । तरप्प्रत्ययनिर्देशाद्विशेषिततमेऽगतिः ।।३३।। . विशेषिततरः प्रत्युत्पन्नाश्रयः ऋजुसूत्राभिमतग्राही नयः शब्द इति । अंत्र तरप्प्रत्ययात्तमप्प्रत्ययो विशेषस्तेन समभिरूढ एवंभूते चायतिरतिव्याप्तिर्न ।।३३।। ऋजुसूत्राद्विशेषोऽस्य भावामात्राभिमानतः । सप्तभंग्यर्पणाल्लिंगभेदादेवार्थभेदतः ॥३४।। अस्य शब्दनयस्य ऋजुसूत्राद्विशेष उत्कर्षः भावमात्रस्याभिमानात् जलाहरणदिक्रियाक्षमं प्रसिद्धं भावघटमेवेच्छति ।।३४।।' सामानाधिकरण्यं चेन्न विकारापरार्थयोः । भिन्नलिंगवचःसंख्यारूपशब्देषु तत्कथम् ।।३५।।.. विकाराविकारार्थकशब्दयोः पलालं दाहः भिन्नलिंगादिरूपाणि येषु; तादृशेषु शब्देषु कथं सामानाधिकरण्यं ? न कथंचिदित्यर्थः ।।३५।। नयः समभिरूढोऽसौ यः सत्स्वर्थेष्वसंक्रमः । शब्दभेदेऽर्थभेदस्य व्याप्त्यभ्युपगमश्च सः ।।३६।।. यः सत्स्वर्थेषु घटादिष्वसंक्रमो घटाद्यन्यशब्दवाच्यत्वं समभिरूढः ।।३६।। (५० MKhadka DADASANTASTOTRAकटकजना नयामृतम्
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy