________________
गिरिस्थतृणदग्धत्वं, अध्वनि मार्गे गच्छन्नरे लक्षणा, कुंडीस्थजलादि ।।२६।।
विस्तृतार्थो विशेषस्य प्राधान्यादेष लौकिकः । पंचवर्णादि गादौ श्यामत्वादिविनिश्चयात् ।।२७।। पंचवर्णाभिलापेऽपि श्रुतव्युत्पत्तिशालिनाम् ।
न तद्वोधे विषयताऽपरांशे व्यावहारिकी ।।२८।। अपरांशे कृष्णेतरवर्णाशे व्यावहारिकी विषयता नास्ति ।।२८।।
भावत्वे वर्तमानत्वव्याप्तिधीरविशेषिता । ऋजुसूत्रः श्रुतः सूत्रे शब्दार्थस्तु विशेषितः ।।२९।। इष्यतेऽनेन नैकत्रावस्थान्तरसमागमः ।
क्रियानिष्ठाभिदाधारद्रव्याभावाद्यथोच्यते ।।३०॥ . अनेन ऋजुसूत्रनयेन एकत्र धर्मिणि अवस्थान्तरसमागमो भिन्नावस्थावाचकपदार्थान्वयो नेष्यते न स्वीक्रियते, कुतः ? क्रिया साध्यावस्था, अन्या च निष्ठा सिद्धावस्था तयोर्या भिदा भिन्नकालसंबन्धस्तदाधारस्यैकद्रव्यस्याभावात् ।।३० ।। ... पलालं न दहत्यग्निर्भिद्यते न घटः क्वचित् ।
. नासंयतः प्रव्रजति भव्योऽसिद्धो न सिध्यति ।।३।। ': अत्रार्थेऽभियुक्तसंमतिमाह-पलालमिति-अत्र दहनादिक्रियाकाल एव तन्निष्ठाकाल इति दह्यमानादेर्दग्धत्वाद्यव्यभिचारात् तदवस्थाविलक्षणपलालाद्यवस्थावच्छिन्नेन समं दहनादिक्रियान्वयस्यायोग्यत्वात्पलालं न दहत्यग्निरित्यादयो व्यवहारा निषेधमुखा उपपद्यन्ते । विधिमुखस्तु व्यवहारोऽत्रापलालं दह्यते, अघटो भिद्यते, संयतः प्रव्रजति, सिद्धः सिध्यतीत्येवमाकार एव द्रष्टव्यः । अत एव “सो समणो पवईओ" इत्यादि क्रियमाणं कृतमेव, कृतं तु क्रियमाणत्वे भजनीयमिति सिद्धान्तः संगच्छते । तदाह भाष्यकार:- .
याताNe
eleedindidealeded. "LACentestamartDosessoonानन ५३