SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ विरुध्येतेति सैद्धान्तिकाः, तार्किकानुसारिणस्तु अतीतानागतपरकीयभेदपृथक्त्वपरित्यागादनुयोगद्वारसूत्रेणेत्यादि ज्ञेयम् ।।१८ ।। नैगमः संग्रहश्चैव व्यवहारर्जुसूत्रको । शब्दः समभिरूढाख्य एवंभूतश्च सप्त ते ।।१९।। निगमेषु भवो बोधो नैगमस्तत्र कीर्तितः। .. तद्भवत्वं पुनर्लोकप्रसिद्धार्थोपगन्तृता ।।२०।। निगमेषु लोकेषु भवो बोधो नैगमः तद्भवत्वं तदाश्रयेणोत्पत्तिकत्वं लोकप्रसिद्धार्थस्वीकर्तृत्वम् ।।२०।। तत्प्रसिद्धिश्च सामान्यविशेषाधुभयाश्रया। : तदन्यतरसंन्यासे व्यवहारो हि दुर्घटः ।।२१।। लोकप्रसिद्धिः सामान्यविशेषाधुभययुता तेषां भेदानां मध्येऽन्यतरस्य संन्यासे । परित्यागे ।।२१।। संग्रहः संगृहीतस्य पिंडितस्य च निश्चयः । संगृहीतं परा जातिः पिंडितं त्वपरा स्मृता ।।२२।। एकद्वित्रिचतुःपंचषड्भेदा जीवगोचराः । भेदाभ्यामस्य सामान्यविशेषाभ्यामुदीरिताः ।।२३।। उपचारा विशेषाश्च नैगमव्यवहारयोः । इष्टा ह्यनेन नेष्यन्ते शुद्धार्थे पक्षपातिना ।।२४।। उपचारेण बहुलो विस्तृतार्थश्च लौकिकः । यो बोधो व्यवहाराख्यो नयोऽयं लक्षितो बुधैः ।।२५।। . दह्यते गिरिरध्वासौ याति स्रवति कुंभिका । इत्यादिरूपचारोऽस्मिन् बाहुल्येनोपलभ्यते ॥२६।। नयामतम ల ల ల ల డ ల పై ఎపుడు ఎలా ఎలా ఎలా ఎలా ఎడా పెడా మడా
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy