SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ आदावन्ते च यत्रास्ति मध्येऽपि हि न तत्तथा । वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ।।१४।। . किंतु वितथैः शशविषाणादिभिः काल्पनिकत्वे सदृशाः सन्तोऽनादिलौकिकव्यवहारवासनावशात् अवितथा इव लक्षिता लोकैरिति शेषः ।।१४।। अयं द्रव्योपयोगः स्याद्विकल्पेऽन्त्ये व्यवस्थितः । ' अन्तरा द्रव्यपर्यायधी: सामान्यविशेषवत् ।।१५।। अयं द्रव्योपयोगो द्रव्यार्थिकनयजन्यो बोधोऽन्त्ये विकल्पे शुद्धसंग्रहाख्ये व्यवस्थितः पर्यायबुध्दयाऽविचलितः स्यात्, अन्तरा शुद्धसंग्रहशुद्धर्जुसूत्रविषयमध्ये द्रव्यपर्यायधीरेव स्यात् सामान्यविशेषबुद्धिवत् ।।१५।। . पर्यायार्थमते द्रव्यं पर्यायेभ्योऽस्ति न पृथक् । यत्नरर्थक्रिया दृष्टा नित्यं कुत्रोपयुज्यते ।।१६।। . पर्यायार्थमते द्रव्यं द्रव्यपदार्थः सदृशक्षणसन्ततिरेव न तु पर्यायेभ्यः पृथगस्ति यद्यस्मात्कारणात्तैः पर्यायैरर्थक्रिया जलाहरणादिरूपा दृष्टा नित्यमप्रच्युतानुत्पन्नस्थिरैकस्वभावं वस्तु कुत्रोपयुज्यंते ? न कुत्रचिदित्यर्थः ।।१६।। यथा लूनपुनर्जातनखादावेकतामतिः । तथैव क्षणसादृश्याद् घटादौ द्रव्यगोचरा ।।१७।। तार्किकाणांत्रयो भेदा आद्या द्रव्यार्थिनो मताः । - सैद्धान्तिकानां चत्वारः पर्यायार्थगताः परे ।।१८।। तार्किकाणां वादिसिद्धसेनमतानुसारिणामाद्याः त्रयो भेदाः नैगमसंग्रहव्यवहारलक्षणा द्रव्यार्थिका इति, सैद्धान्तिकानां तु जिनभद्रगणिक्षमाश्रमणवचनानुसारिणां चत्वार आद्या ऋजुसूत्रसहिता द्रव्यार्थिका इति । ऋजुसूत्रादयश्चत्वारः पर्यायार्थिका वादिनामिति, शब्दादयः त्रय एव च क्षमाश्रमणानामिति । ऋजुसूत्रो यदि द्रव्यं नाभ्युपेयात्तदा उक्तं "उज्जुसुयस्स एगे अणुवउत्ते एगं दव्वावस्सयं पुहत्तेणं" इति सूत्रं नयामृतम् SANTOTASTDASTMAITATIAUTAN कक क कककक
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy