SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ अयं न संशयः कोटेरैक्यान्न च समुच्चयः । न विभ्रमो यथार्हत्वादपूर्णत्वाञ्च न प्रमा ।।८।। अयं नयाख्यो बोधः कोटेः प्रकारस्यैक्यात् संशयो न ।।८।। न समुद्रोऽसमुद्रो वा समुद्रांशो यथोच्यते । नाप्रमाणं प्रमाणं वा प्रमाणांशस्तथा नयः ।।९।। स्वार्थे सत्याः परैर्नुना असत्या निखिला नयाः । विदुषां तत्र नैकान्ता इति दृष्टं हि संमतौ ।।१०।। स्वार्थे त्वविषये सत्या निश्चायकाः परैर्नयैर्नुना अप्रामाण्यशंकाविषयीकृताः । असत्या अनिश्चायका निखिला नया नैगमादयो विदुषां नैकान्ता वक्तुं युक्ता इति दृष्टं परीक्षितं संमतिग्रन्थे ।।१०।। बौद्धादिदृष्टयोऽप्यत्र वस्तुस्पर्शेन नाप्रमाः । उद्देश्यसाधने रत्नप्रभायां रत्नबुद्धिवत् ।।१।। - अत्र नयग्रन्थे उद्देश्यं यदभिनिविष्टेतरनयखंडनं तत्साधने तत्साधननिमित्तं बौद्धादिदृष्टयोऽपि बौद्धादिनयपरिग्रहा अपि वस्तुस्पर्शेन शुद्धपर्यायादिवस्तुप्राप्त्या नाप्रमाः फलतो न मिथ्यारूपा इत्यर्थः ।।११।। अयं संक्षेपतो द्रव्यपर्यायार्थतया द्विधा । . द्रव्यार्थिकमते द्रव्यं तत्त्वं नेष्टमतः पृथक् ।।१२।। . अयं सामान्यलक्षणलक्षितो नयो द्रव्यार्थिकः पर्यायार्थिकः ।।१२।। तिर्यगूर्ध्वप्रचयिनः पर्यायाः खलु कल्पिताः । सत्यं तेष्वन्वयि द्रव्यं कुंडलादिषु हेमवत् ।।१३।। तेषु पर्यायेषु द्रव्यं सत्यं, कल्पिता=वासनाविशेषप्रभवविकल्पसिद्धा अपारमार्थिका इति यावत् ।।१३।। - బ బ ల ల ల ల ల ల ల ల ల ల డ డా బడా బడా బడులు
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy