SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ इदं वचनरूपस्य नयस्य लक्षणं हि निश्चितं मिश्रितं नानाधर्मः करंबितं वस्तु अपेक्षा विना विवेचयितुं न शक्यम् ।।२।। यद्यप्यनन्तधर्मात्मा वस्तु प्रत्यक्षगोचरः । तथापि स्पष्टबोध: स्यात् सापेक्षो दीर्घतादिवत् ।।३।। वस्तु घटादिकं आदीयतेऽनेनेत्यादि ज्ञानं दीर्घताया आदि ज्ञानं दीर्घताप्रत्यक्षवदित्यर्थः ।।३।। नानानयमयो व्यक्तो मतभेदो ह्यपेक्षया । __कोट्यन्तरनिषेधस्तु प्रस्तुतोत्कटकोटिकृत् ।।४।। - बौद्धोपनिषदादिदर्शनो नानानयमयः कोट्यन्तरस्येतरनयार्थस्य निषेधो निराकरणं । कथंभूतो निषेधः ? प्रस्तुता या उत्कटकोटिस्तत्कृत्, प्रस्तुतकोटेरुत्कटत्वकृदित्यर्थः ।।४।। . . तेन सापेक्षभावेषु प्रतीत्यवचनं नयः । ... अभावाभावरूपत्वात् सापेक्षत्वं विधावपि ।।५।। .. तेन हेतुना परस्परप्रतियोगिकेषु भावेषु विधौ अस्तित्वादिभावेऽपि ___ अभावाभावरूपत्वान्नास्तित्वाद्यभावस्वरूपत्वात् ।।५।। सप्तभंग्यात्मकं वाक्यं प्रमाणं पूर्णबोधकृत् । स्यात्पदादपरोल्लेखि वचो यश्चैकधर्मगम् ।।६।। ... सप्तभंग्यात्मकं स्यादस्त्येव स्यानास्त्येवेत्यादिकं वाक्यं प्रमाणं । यतः पूर्णबोधकृत् स्यात्कारपदात् ।।६।। यथा नैयायिकैरिष्टा चित्रे नैकैकरूपधीः । नयप्रमाणभेदेन सर्वत्रैव तथार्हतैः ।।७।। आहेतैः जैनसूरिभिः ।।७।। नयामतम SWABG ICONTAITADIATIONळमजकळजळ ४२)
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy