________________
वाइ इत्यादि । व्रजति इच्छति निर् आधिक्ये, चयनं चयः, अधिकश्चयो निश्चयः सामान्यम्, विगतो निश्चयो विनिश्चयः विगतसामान्यभावः, तदर्थं तन्निमित्तम् - सामान्याभावायेति भावना, व्यवहारो नयः, क्व ? सर्वद्रव्येषु सर्वद्रव्यविषये ।। तथा च विशेषप्रतिपादनपरः खल्वयं सदित्युक्ते विशेषानेव घटादीन् प्रतिपद्यते, तेषां व्यवहारहेतुत्वात्, न तदतिरिक्तं सामान्यम्, तस्य व्यवहारापेतत्वात् । तथा च सामान्यं विशेषभ्यो भिन्नम् अभिन्नं वा स्याद् ? । यदि भिन्नम्, विशेषव्यतिरेकेणोपलभ्येत । अथाभिन्नम्, विशेषमानं तत्, तदव्यतिरिक्तत्वात्, तत्स्वरूपवदिति । अथवा विशेषेण निश्चयो विनिश्चयः - आगोपालाङ्ग नाद्यवबोधः, न कतिपयविद्वत्सम्बद्ध इति, तदर्थं व्रजति सर्वद्रव्येषु । आह च भाष्यकार:- . . .
भमरादिपंचवण्णादिणिच्छए जम्मि वा जणवयस्स । .
अत्थे विणिच्छओ सो विणिच्छियत्थो त्ति जो गज्झो ।।१।। . बहुतरओ त्ति य तं चिय गमेइ संते वि सेसए मुयइ ।
संववहारपरतया ववहारो लोगमिच्छंतो ।।२।।(विशेषावश्यकभा० २२२०-२२२१) इत्यादि ।
उक्तो व्यवहार इति गाथार्थः । पझुप्पन्नग्गाही उज्जुसुओ णयविही मुणेयवो । इच्छइ विसेसियतरं पञ्चप्पण्णं णओ सद्दो ।।१३८।।
(वि.) पशुप्पण्णग्गाही गाहा । साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते, वर्तमानमित्यर्थः, प्रति प्रति वोत्पन्नं प्रत्युत्पन्नं भिन्नव्यक्तिस्वामिकमित्यर्थः, तद्. ग्रहीतुं शीलमस्येति प्रत्युत्पन्नग्राही ऋजुसूत्रः ऋजुश्रुतो वा नयविधिर्विज्ञातव्यः । तत्र ऋजु वर्तमानं . अतीता-ऽनागतपरित्यागाद् वस्त्वखिलं तत् सूत्रयति गमयतीति ऋजुसूत्रः । यद्वा ऋजु वक्रविपर्ययाद् अभिमुखम्, (श्रुतं तु) ज्ञानम्, ततश्चाभिमुखं ज्ञानमस्येति ऋजुसूत्रः, शेषज्ञानानभ्युपगमात् । अयं हि नयः वर्त्तमानं स्वलिङ्ग-वचननामादिभिन्नमप्येकं वस्तु प्रतिपद्यते, शेषमवस्त्विति । तथाहि- अतीतमेष्यं (ष्यद् ?)
Catecomaatmlaatientisticatestosteronळकाय नयामृतम्
?"