________________
वा. न भावः, विनष्टाऽनुत्पन्नत्वाददृश्यत्वात्, खपुष्पवत्, तथा परकीयमप्यवस्तु, निष्फलत्वात्, खपुष्पवत् तस्माद् वर्तमानं स्वं वस्तु । तञ्च न लिङ्गादिभिन्नमपि स्वरूपमुज्झति-लिङ्गभिन्नं तटस्तटी तटमिति, वचनभिन्नमापो जलम्, नामादिभिन्नं नाम-स्थापना-द्रव्य-भावा इति । उक्त ऋजुसूत्रः ।
इच्छति प्रतिपद्यते विशेषिततरं नाम-स्थापना-द्रव्यंविरहेण समानलिङ्गवचन-पर्याय-ध्वनिवाच्ये(च्यत्वे)न च प्रत्युत्पन्नं वर्तमानं नयः । कः ? शप आक्रोशे (पा० धा० १०६१, १२४४), शप्यतेऽनेनेति शब्दः, तस्यार्थपरिग्रहादभेदोपचारानयोऽपि शब्द एव । तथाहि- अयं नाम-स्थापना-द्रव्यकुम्भा न सन्त्येवेति मन्यते, तत्कार्याकरणात्, खपुष्पवत्, न च भिन्न(लिङ्ग-वचनमेकम्), लिङ्ग-वचनभेदादेव, स्त्री-पुरुषवत् कुट-वृक्षवद्, अतो घटः (कुट:) कुम्भ इति स्वपर्यायध्वनिवाच्यमेवैकमिति गाथार्थः ।। ... वत्थूओ संकमणं होई अवत्थु णये समभिरूढे ।
वंजण-अत्थ-तदुभयं एवंभूओ विसेसेइ ।।१३९।। - (वि.) वत्थूओ गाहा । वस्तुनः सङ्क्रमणं भवति अवस्तु नये समभिरूढे, वस्तुनः घटस्य सङ्क्रमणम् अन्यत्र कुटाख्यादौ गमनं भवति अवस्तु, असदित्यर्थः, नये पर्यालोच्यमाने, कस्मिन् ? नानार्थसमभिरोहणात् समभिरूढस्तस्मिन् । इयमत्र भावना- घटः (कुटः) कुम्भ इत्यादिशब्दान् भित्रप्रवृत्तिनिमित्तत्वाद् 'भिन्नार्थगोचरानेव मन्यते, घट-पटादिशब्दानिव । तथा च घटनाद् घटः, विशिष्टचेष्टावानों घट इति, तथा कुट कौटिल्ये (पा० धा० १४५४), कुटनात् कुटः कौटिल्ययोगात् कुट इति, तथा उभ उम्भ पूरणे (पा० धा०१४०५१४०६), कुम्भनात् कुम्भः, कुत्सितपूरणादित्यर्थः । ततश्च यदा घटार्थे कुटादिशब्दः प्रयुज्यते तदा वस्तुनः कुटादेस्तत्र सङ्क्रान्तिः कृता भवति, तथा च सति सर्वधर्माणां नियतस्वभावत्वादन्यत्र सङ्क्रान्त्योभयस्वभावापगमतोऽवस्तुतेत्यलं विस्तरेण । उक्त: समभिरूढः ।
वंजण इत्यादि । व्यज्यते व्यनक्तीति वा व्यञ्जनं शब्दः, अर्थस्तु तद्गोचरः,
ల
ల
ల
ల ల
ల డబులు ఎలా డబుల డ ప
డ
ల