________________
निरुक्तिः । निगमेषु वा भवो नैगमः, निगमाः पदार्थपरिच्छेदाः । तत्र सर्वत्र सदित्येवमनुगताकारा (वबोधहेतुभूतां महासत्तामिच्छति अनुवृत्त-व्यावृत्ता)वबोधहेतुभूतं च सामान्यविशेषं द्रव्यत्वादिव्यावृत्तावबोधहेतुभूतं च नित्यद्रव्यवृत्तिमन्तं विशेषम् । आह- इत्थं तर्हि अयं नैगमः सम्यग्दृष्टिरेवास्तु, सामान्यविशेषाभ्युपगमपरत्वात्, साधुवदिति, नैतदेवम्, सामान्य-विशेषवस्तूनामत्यन्तभेदाभ्युपगमपरत्वात् तस्येति । आह च भाष्यकार:
जं सामण्णविसेसे परोप्परं वत्थुतो य सो भिण्णे । मण्णइ अनंतमओ मिच्छट्ठिी कणादो व्व ।।१।। (विशेषाश्यकभा० २१९४) दोहि वि णएहिं णीयं सत्थमुलूएण तह वि मिच्छत्तं । जं सविसयप्पहाणतणेण अण्णोण्णणिरवेक्खा ।।२।। (विशेषाश्यकभा० २१९५, सन्मति०का० ३ गा० ४९)
अथवा निलयन-प्रस्थक-ग्रामोदाहरणेभ्योऽधःप्रतिपादितेभ्यः खल्वयमवसेय इत्यलं प्रसङ्गेन । गमनिकामात्रमेतत् । सेसाणमित्यादि, शेषाणामपि नयानां सङ्ग्रहादीनां लक्षणमिदं शृणुत, वक्ष्ये अभिधास्ये इत्ययं गाथार्थः ।
संगहियपिंडियत्थं संगहवयणं समासओ बेंति ।
वाइ विणिच्छियत्थं ववहारो सव्वदव्वेसुं ।।१३७।। . . .. (वि.) संगहिय गाहा । आभिमुख्येन गृहीतः उपात्तः सङ्ग्रहीतः, पिण्डितः एकजातिमापन्नः अर्थः विषयो यस्य तत् सङ्ग्रहीतपिण्डिता) सङ्ग्रहस्य वचनं समासंतः सङ्खपत: ब्रुवते तीर्थकर-गणधरा इति । एतदुक्तं भवति
सामान्यप्रतिपादनपरः खल्वयं सदित्युक्ते सामान्यमेव प्रतिपद्यते, न विशेषम् । ' तथा च मन्यते- विशेषाः सामान्यतोऽर्थान्तरभूताः स्युः ? अनर्थान्तरभूता वा ? यद्यर्थान्तरभूताः न सन्ति सामान्यादर्थान्तरत्वात्, खपुष्पवत् । अथानान्तरभूताः, सामान्यमानं तदव्यतिरिक्तत्वात्, स्वरूपवत् । पर्याप्तं व्यासेन, उक्तः सङ्ग्रहः । . .